top of page

    4. न खलु वयस्तेजसो हेतुः - Na Khalu Vayastejaso Hetuh - Class 9 - Sharada

    • Jun 11
    • 21 min read

    SECTION 1 — पाठ परिचय

    विवरण

    जानकारी

    पाठ का नाम:

    न खलु वयस्तेजसो हेतुः (Na khalu vayastejaso hetuh)

    विधा:

    गद्य पाठ — जीवनी (Biography)

    स्रोत/ग्रंथ:

    स्वतन्त्ररचना / ऐतिहासिक-वृत्तान्तः

    लेखक/कवि:

    अज्ञात (सङ्कलितः)

    पाठ्यपुस्तक:

    शारदा, NCERT कक्षा 9 संस्कृत, 2026-27

    परीक्षा खंड:

    खंड-घ (साहित्य) — 25-30 अंक

    SECTION 2 — लेखक/स्रोत परिचय


    SANSKRIT:

    अयं पाठः भारतस्य स्वतन्त्रतासङ्ग्रामस्य अमरक्रान्तिकारिणः खुदीरामबोस-महोदयस्य जीवनवृत्तान्ते आधारितः अस्ति। पाठे तस्य बाल्यकालः, देशभक्तिः, किङ्ग्ज़फोर्ड-वधप्रयासः, तथा च तस्य बलिदानं वर्णितम् अस्ति। अस्य पाठस्य उद्देश्यं छात्रेषु राष्ट्रप्रेम, त्यागः, शौर्यं च इत्येतेषां मूल्यानां विकासः अस्ति।

    हिंदी अनुवाद:

    यह पाठ भारत के स्वतंत्रता संग्राम के अमर क्रांतिकारी खुदीराम बोस के जीवन वृत्तांत पर आधारित है। पाठ में उनके बचपन, देशभक्ति, किंग्सफोर्ड की हत्या के प्रयास और उनके बलिदान का वर्णन किया गया है। इस पाठ का उद्देश्य छात्रों में राष्ट्रप्रेम, त्याग और वीरता के मूल्यों का विकास करना है।

    English:

    This chapter is a biographical account of Khudiram Bose, an immortal revolutionary of India's freedom struggle. It details his childhood, patriotism, the assassination attempt on Kingsford, and his ultimate martyrdom to inspire students with the values of patriotism and courage.


    EXAM TIP:परीक्षा में लेखक/स्रोत परिचय 5 अंकों के दीर्घ उत्तरीय प्रश्न में पूछा जाता है।(As this is a biographical chapter, questions will focus heavily on historical events, dates like 1905 Vanga-Bhanga, and the characters involved. Prepare timeline notes.)

    SECTION 3 — मूल पाठ


    १। भारतदेशस्य स्वतन्त्रतायाः अमृतमहोत्सववर्षं वयम् आचरितवन्तः ।

    २। किं वयं जानीमः यत् देशाय स्वातन्त्र्यं प्रदातुं कियन्तः ज्ञाताः अज्ञाताः च क्रान्तिवीराः स्वतन्त्रतायज्ञे स्वीयपरिवारं स्वीयजीवनं च आहुतिरूपेण समर्पितवन्तः इति ?

    ३। छात्राः ! ते सर्वेऽपि क्रान्तिवीराः अस्माभिः कृतज्ञताभावनया नित्यं वन्दनीयाः ।

    ४। खुदीरामः तेषु एव देशभक्तेषु कश्चन तेजस्वी बालक्रान्तिवीरः हुतात्मा अस्ति।

    ५। क्रान्तिवीरस्य खुदीरामस्य जीवनवृत्तान्तः संक्षेपेण अत्र वर्णितः अस्ति।

    ६। बङ्गप्रान्तः भारतस्य स्वतन्त्रतासङ्ग्रामे सशस्त्रान्दोलने अग्रेसरः आसीत् ।

    ७। तस्मिन् बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनी-ग्रामे नवाशीत्यधिक-अष्टादशशततमे वर्षे (१८८९) दिसम्बरमासस्य तृतीये दिनाङ्के खुदीरामस्य जन्म अभवत्।

    ८। तस्य जनकस्य नाम त्रैलोक्यनाथः इति, जनन्याः नाम लक्ष्मीप्रिया देवी च आसीत्।

    ९। खुदीरामस्य बाल्यकाले एव तस्य पितरौ दिवङ्गतौ।

    १०। अतः तस्य अग्रजया अपरूपादेव्या एव खुदीरामस्य पालनं पोषणं च कृतम्।

    ११। बाल्यकालतः एव खुदीरामः असाधारणः आसीत् ।

    १२। साधारणबालानाम् इव क्रीडादिषु तस्य मनः न रमते स्म।

    १३। सः देशवासिषु जायमानान् अत्याचारान् दृष्ट्वा व्यथितः भवति स्म।

    १४। बङ्गप्रान्ते क्रान्तिवीराणां महद्भिः गुप्तगतिविधिभिः आङ्ग्लाः संत्रस्ताः आसन् ।

    १५। भारतस्य तात्कालिकः वायसरायः कर्जनः बङ्गप्रान्तस्य एतत् वीरत्वं दमयितुम्, उत्साहं ध्वंसयितुं, देशभक्तिं मर्दयितुं च बङ्गप्रान्तस्य पन्थाधारितं विभजनं करणीयम् इति निश्चितवान्।

    १६। पञ्चाधिक-नवदशशततमे वर्षे (१९०५) तेन बङ्गप्रान्तः भागद्वये विभाजितः ।

    १७। तस्य एतया कृत्या न केवलं बङ्गप्रान्ते अपि तु सर्वस्मिन् देशे जनान्दोलनं प्रवृत्तम्।

    १८। बङ्गभङ्ग-आन्दोलनमिति तस्य जनान्दोलनस्य नाम।

    १९। यद्यपि खुदीरामः तस्मिन् समये केवलं पञ्चदशवर्षीयः तथापि देशभक्तेः भावनया सः प्रेरितः सन् जनान्दोलने कूर्दितः।

    २०। आङ्ग्लानां पारतन्त्र्यशृङ्खलातः वन्दनीयभारतमातुः मोचनं करणीयम् इत्येव सङ्कल्पः आसीत्।

    २१। अतः सः नवमीं कक्षाम् अपि पूर्णां कर्तुं न शक्तवान्।

    २२। यतोहि देशभक्तानां जीवनं राष्ट्राय समर्पितं भवति ।

    २३। बालानां संघटनं कृत्वा सः पदयात्राम् आयोजयति स्म।

    २४। तस्यां यात्रायां देशभक्तियुतानि गीतानि, वन्दे मातरम् चेत्यादयः घोषणाः भवन्ति स्म।

    २५। सः पदयात्रामाध्यमेन लोकजागरणविषयकाणि पत्रकाणि जनेषु वितरति स्म।

    २६। कदाचित् खुदीरामः पत्रकवितरणसमये आङ्ग्लानां हस्तगतः जातः ।

    २७। किन्तु सामर्थ्यसम्पन्नः खुदीरामः आङ्ग्लानां ताडनं कृत्वा ततः निरगच्छत्।

    २८। बङ्गप्रान्ते क्रान्तिवीरैः सञ्चालितानि बहूनि गुप्तमण्डलानि आङ्ग्लानां मनसि आतङ्कं जनयन्ति स्म।

    २९। कस्यचित् गुप्तमण्डलस्य सञ्चालकः आसीत् सत्येन्द्रनाथः ।

    ३०। खुदीरामः स्वमित्रेण प्रफुल्लेन सह गत्वा सत्येन्द्रनाथेन अमिलत् ।

    ३१। सत्येन्द्रनाथः उपादिशत् - “क्रान्तिकार्यं कर्तुं शरीरं वज्रसदृशं दृढं, बुद्धिः असिधारा इव तीक्ष्णा, मनः गङ्गाजलमिव निर्मलं च भवेत् इति"।

    ३२। तस्मात् द्वाभ्याम् गुप्तप्रशिक्षणकेन्द्रात् अष्टमासात्मकं प्रशिक्षणं प्राप्तम्।

    ३३। भुशुण्डिसञ्चालने अपि तौ अचिरादेव प्रवीणौ सञ्जातौ ।

    ३४। राणाप्रतापस्य चरित्रेण प्रेरितः खुदीरामः प्रतिज्ञातवान् यत् 'यावत् भारतम् आङ्ग्लशासनात् मुक्तं न भविष्यति तावत् पादत्राणं न धरिष्यामि' इति ।

    ३५। कलकत्ता-जनपदस्य मुख्यः न्यायिकः आङ्ग्लः अधिकारी 'किङ्ग्ज़फोर्ड्' भारतीय-देशभक्तान् अतीवकठोररीत्या दण्डयति स्म।

    ३६। निर्दयः सः बालान् अपि न त्यजति स्म।

    ३७। तस्य स्थानान्तरणं यदा मुज़फ्फरनगरे जातं तदा 'सः हन्तव्यः' इति सशस्त्रक्रान्तिवीरमण्डलेन निश्चितम्।

    ३८। हत्यायोजनायाः सम्पूर्णम् उत्तरदायित्वं प्रफुल्ल-खुदीरामाभ्यां स्वीकृतम्।

    ३९। तस्य वधस्य सूक्ष्मा योजनापि द्वाभ्यां निर्मिता।

    ४०। अष्टाधिक-नवदशशततमवर्षस्य एप्रिलमासस्य अष्टाविंशे दिनाङ्के (२८-०४-१९०८) किङ्ग्ज़फोर्ड् इत्यस्य रथविशेषे प्रफुल्ल-खुदीरामाभ्यां विस्फोटकं प्रक्षिप्तम्।

    ४१। महान् विस्फोटध्वनिः जातः । अग्निज्वालाः आकाशम् अस्पृशन्।

    ४२। 'किङ्ग्ज़फोर्ड् हतः' अस्माकम् उत्तरदायित्वं पूर्णम् इति कृतार्थभावनया तौ पलायितवन्तौ ।

    ४३। किन्तु हा धिक् ! यद्यपि सः किङ्ग्ज़फोर्ड् महोदयस्य रथः आसीत् तथापि तस्मिन् सः नासीदेव।

    ४४। केनेडीनामकस्य अधिकारिणः पत्नी पुत्री च तत्र आस्ताम्।

    ४५। ते मृते किन्तु किङ्ग्ज़फोर्ड् रक्षितः।

    ४६। आरात्रि द्वौ अपि क्रान्तिवीरौ अधावताम्।

    ४७। किन्तु दौर्भाग्यवशात् आङ्ग्लाः आरक्षकाः तौ अगृह्णन् ।

    ४८। वीरप्रफुल्लेन आङ्ग्लानां विरोधे कृतः प्रतीकारयत्नः व्यर्थः अभूत् ।

    ४९। अनन्यगतिकः प्रफुल्लः भारतमातरं मनसा प्रणम्य 'वन्दे मातरमिति' उद्घोष्य च स्ववक्षःस्थले भुशुण्ड्या गोलिकाप्रहारं कृतवान्।

    ५०। वीरबालः प्रफुल्लः हौतात्म्येन अमरः जातः ।

    ५१। आङ्ग्लैः गृहीतः खुदीरामः न्यायालयं नीतः ।

    ५२। तत्र अधिवक्तॄणां प्रत्येकं प्रश्नस्य खुदीरामस्य निश्चितम् उत्तरम् आसीत् यत् 'वन्दे मातरम्' इति ।

    ५३। न्यायाधीशेन निर्दयतया बालाय खुदीरामाय मृत्युदण्डः उद्घोषितः उद्बन्धनम् इति ।

    ५४। राष्ट्रभक्तस्य खुदीरामस्य मुखे भयं दुःखं वा नासीत् प्रत्युत प्रसन्नता, शान्तिः, तृप्तिः, तेजः च आसीत्।

    ५५। तत् दृष्ट्वा न्यायाधीशः आङ्ग्लाः अधिकारिणः चापि चकिताः।

    ५६। अष्टाधिक-नवदशशततमस्य वर्षस्य अगस्तमासस्य एकादशे दिनाङ्के (११-०८-१९०८) बाल्ये वयसि एव देशस्य स्वातन्त्र्यार्थं खुदीरामः हुतात्मा जातः ।

    ५७। प्रियभारतमातुः दर्शनार्थं सः हसन्, वन्दे मातरम् इति जपन् आनन्देन दिवं गतः ।


    SECTION 4 — अन्वय

    वाक्यम् ७:

    मूल: तस्मिन् बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनी-ग्रामे नवाशीत्यधिक-अष्टादशशततमे वर्षे (१८८९) दिसम्बरमासस्य तृतीये दिनाङ्के खुदीरामस्य जन्म अभवत्।

    अन्वयः: खुदीरामस्य जन्म तस्मिन् बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनी-ग्रामे नवाशीत्यधिक-अष्टादशशततमे वर्षे (१८८९) दिसम्बरमासस्य तृतीये दिनाङ्के अभवत्।


    वाक्यम् १५:

    मूल: भारतस्य तात्कालिकः वायसरायः कर्जनः बङ्गप्रान्तस्य एतत् वीरत्वं दमयितुम्, उत्साहं ध्वंसयितुं, देशभक्तिं मर्दयितुं च बङ्गप्रान्तस्य पन्थाधारितं विभजनं करणीयम् इति निश्चितवान्।

    अन्वयः: भारतस्य तात्कालिकः वायसरायः कर्जनः बङ्गप्रान्तस्य एतत् वीरत्वं दमयितुम्, उत्साहं ध्वंसयितुं, देशभक्तिं च मर्दयितुं बङ्गप्रान्तस्य पन्थाधारितं विभजनं करणीयम् इति निश्चितवान्।


    वाक्यम् २७:

    मूल: किन्तु सामर्थ्यसम्पन्नः खुदीरामः आङ्ग्लानां ताडनं कृत्वा ततः निरगच्छत्।

    अन्वयः: किन्तु सामर्थ्यसम्पन्नः खुदीरामः आङ्ग्लानां ताडनं कृत्वा ततः निरगच्छत्।

    (अन्वयः मूल वाक्य के समान है)


    वाक्यम् ३१:

    मूल: सत्येन्द्रनाथः उपादिशत् - “क्रान्तिकार्यं कर्तुं शरीरं वज्रसदृशं दृढं, बुद्धिः असिधारा इव तीक्ष्णा, मनः गङ्गाजलमिव निर्मलं च भवेत् इति"।

    अन्वयः: सत्येन्द्रनाथः उपादिशत् - “क्रान्तिकार्यं कर्तुं शरीरं वज्रसदृशं दृढं [भवेत्], बुद्धिः असिधारा इव तीक्ष्णा [भवेत्], मनः च गङ्गाजलमिव निर्मलं भवेत् इति"।


    वाक्यम् ४९:

    मूल: अनन्यगतिकः प्रफुल्लः भारतमातरं मनसा प्रणम्य 'वन्दे मातरमिति' उद्घोष्य च स्ववक्षःस्थले भुशुण्ड्या गोलिकाप्रहारं कृतवान्।

    अन्वयः: अनन्यगतिकः प्रफुल्लः भारतमातरं मनसा प्रणम्य 'वन्दे मातरम्' इति उद्घोष्य च स्ववक्षःस्थले भुशुण्ड्या गोलिकाप्रहारं कृतवान्।

    (अन्वयः मूल वाक्य के समान है)


    EXAM TIP:CBSE में 'अन्वयं पूरयत' प्रश्न के लिए सही Subject → Object → Verb क्रम अनिवार्य है।(CBSE tests Anvaya directly. The complete Anvaya for all sentences is in the premium PDF.)

    SECTION 5 — शब्दार्थ

    संस्कृत पद

    हिंदी अर्थ

    English Meaning

    हुतात्मा

    शहीद / बलिदान देने वाला

    Martyr

    सशस्त्रान्दोलने

    हथियारों के साथ आंदोलन में

    In armed rebellion

    दिवङ्गतौ

    स्वर्ग सिधार गए / मृत्यु हो गई

    Passed away

    अग्रजया

    बड़ी बहन के द्वारा

    By the elder sister

    व्यथितः

    दुखी / परेशान

    Distressed / Pained

    संत्रस्ताः

    डरे हुए / भयभीत

    Terrified

    पन्थाधारितम्

    पंथ/संप्रदाय पर आधारित

    Sect-based / Religion-based

    पारतन्त्र्यशृङ्खलातः

    गुलामी की जंजीरों से

    From the chains of slavery

    हस्तगतः

    हाथ आ गया / पकड़ा गया

    Captured

    निरगच्छत् (निर्+गम्)

    निकल गया / भाग निकला

    Escaped

    असिधारा

    तलवार की धार

    Edge of a sword

    भुशुण्डिसञ्चालने

    बंदूक चलाने में

    In operating a gun

    पादत्राणम्

    जूते

    Footwear / Shoes

    स्थानान्तरणम्

    तबादला

    Transfer

    विस्फोटकम्

    बम / विस्फोटक सामग्री

    Explosive / Bomb

    आरात्रि

    पूरी रात

    All night

    आरक्षकाः

    पुलिसवाले

    Policemen / Guards

    अनन्यगतिकः

    जिसके पास कोई अन्य उपाय न हो

    Helpless / Having no other way

    स्ववक्षःस्थले

    अपने सीने पर

    On his own chest

    उद्बन्धनम्

    फाँसी

    Hanging

    SECTION 6 — हिंदी अनुवाद


    १. हम लोगों ने भारत देश की स्वतंत्रता का अमृत महोत्सव वर्ष मनाया है।

    २. क्या हम जानते हैं कि देश को स्वतंत्रता दिलाने के लिए कितने ही ज्ञात और अज्ञात क्रांतिकारियों ने स्वतंत्रता के यज्ञ में अपने परिवार और अपने जीवन की आहुति दे दी?

    ३. छात्रों! वे सभी क्रांतिकारी हमारे द्वारा कृतज्ञता की भावना से हमेशा पूजनीय (वंदनीय) हैं।

    ४. खुदीराम उन देशभक्तों में से ही एक अत्यंत तेजस्वी बाल-क्रांतिकारी और शहीद (हुतात्मा) हैं।

    ५. क्रांतिकारी खुदीराम का जीवन वृत्तांत यहाँ संक्षेप में वर्णित किया गया है।

    ६. बंगाल प्रांत भारत के स्वतंत्रता संग्राम के सशस्त्र आंदोलन में सबसे आगे था।

    ७. उसी बंगाल प्रांत में मेदिनीपुर नामक जिले के मोबनी गाँव में सन 1889 में 3 दिसंबर को खुदीराम का जन्म हुआ।

    ८. उनके पिता का नाम त्रैलोक्यनाथ और माता का नाम लक्ष्मीप्रिया देवी था।

    ९. खुदीराम के बचपन में ही उनके माता-पिता का देहांत हो गया था।

    १०. इसलिए उनकी बड़ी बहन अपरूपा देवी ने ही खुदीराम का पालन-पोषण किया।

    ११. बचपन से ही खुदीराम असाधारण थे।

    १२. सामान्य बच्चों की तरह खेल-कूद में उनका मन नहीं लगता था।

    १३. वह देशवासियों पर हो रहे अत्याचारों को देखकर बहुत दुखी होते थे।

    १४. बंगाल प्रांत में क्रांतिकारियों की बड़ी गुप्त गतिविधियों से अंग्रेज़ डरे हुए थे।

    १५. भारत के तत्कालीन वायसराय कर्जन ने बंगाल प्रांत की इस वीरता का दमन करने, उत्साह को नष्ट करने और देशभक्ति को कुचलने के लिए बंगाल प्रांत का संप्रदाय-आधारित विभाजन करने का निश्चय किया।

    १६. सन 1905 में उसने बंगाल प्रांत को दो भागों में बाँट दिया।

    १७. उसके इस काम से न केवल बंगाल प्रांत में बल्कि पूरे देश में जन-आंदोलन शुरू हो गया।

    १८. उस जन-आंदोलन का नाम 'बंग-भंग आंदोलन' था।

    १९. यद्यपि खुदीराम उस समय केवल पंद्रह वर्ष के थे, फिर भी देशभक्ति की भावना से प्रेरित होकर वे जन-आंदोलन में कूद पड़े।

    २०. अंग्रेज़ों की गुलामी की जंजीरों से आदरणीय भारत माता को आज़ाद कराना ही उनका एकमात्र संकल्प था।

    २१. इसलिए वह अपनी नौवीं कक्षा भी पूरी नहीं कर सके।

    २२. क्योंकि देशभक्तों का जीवन राष्ट्र को समर्पित होता है।

    २३. बच्चों का संगठन बनाकर वे पदयात्रा आयोजित करते थे।

    २४. उस यात्रा में देशभक्ति से भरे गीत और 'वंदे मातरम' आदि के नारे लगाए जाते थे।

    २५. वह पदयात्रा के माध्यम से लोगों को जगाने वाले पर्चे (पत्रक) जनता में बाँटते थे।

    २६. एक बार खुदीराम पर्चे बाँटते समय अंग्रेज़ों के हाथ लग गए (पकड़े गए)।

    २७. लेकिन शक्तिशाली खुदीराम अंग्रेज़ों को पीटकर वहाँ से भाग निकले।

    २८. बंगाल प्रांत में क्रांतिकारियों द्वारा चलाई जा रही कई गुप्त संस्थाएँ अंग्रेज़ों के मन में डर पैदा कर रही थीं।

    २९. ऐसे ही किसी गुप्त मंडल के संचालक सत्येंद्रनाथ थे।

    ३०. खुदीराम अपने मित्र प्रफुल्ल के साथ जाकर सत्येंद्रनाथ से मिले।

    ३१. सत्येंद्रनाथ ने उपदेश दिया - "क्रांति का कार्य करने के लिए शरीर वज्र के समान मजबूत, बुद्धि तलवार की धार जैसी तेज़, और मन गंगाजल जैसा पवित्र होना चाहिए।"

    ३२. इसके बाद उन दोनों ने एक गुप्त प्रशिक्षण केंद्र से आठ महीने का प्रशिक्षण प्राप्त किया।

    ३३. वे बंदूक चलाने में भी बहुत जल्दी माहिर (निपुण) हो गए।

    ३४. राणा प्रताप के चरित्र से प्रेरित होकर खुदीराम ने प्रतिज्ञा की कि 'जब तक भारत अंग्रेज़ी शासन से मुक्त नहीं हो जाता, तब तक मैं जूते नहीं पहनूँगा।'

    ३५. कलकत्ता जिले का मुख्य न्यायिक अंग्रेज़ अधिकारी 'किंग्सफोर्ड' भारतीय देशभक्तों को बहुत कठोर सजा देता था।

    ३६. वह निर्दयी बच्चों को भी नहीं छोड़ता था।

    ३७. जब उसका तबादला मुज़फ्फरपुर में हुआ, तब सशस्त्र क्रांतिकारी दल ने तय किया कि 'उसे मार डालना चाहिए।'

    ३८. उसकी हत्या की योजना की पूरी ज़िम्मेदारी प्रफुल्ल और खुदीराम ने ली।

    ३९. उसकी हत्या की एक सूक्ष्म (बारीक) योजना भी उन दोनों ने बनाई।

    ४०. वर्ष 1908 के अप्रैल महीने की 28 तारीख (28-04-1908) को किंग्सफोर्ड की विशेष बग्घी (रथ) पर प्रफुल्ल और खुदीराम ने बम (विस्फोटक) फेंका।

    ४१. एक बहुत बड़ा धमाका हुआ। आग की लपटों ने आसमान को छू लिया।

    ४२. 'किंग्सफोर्ड मारा गया', हमारी ज़िम्मेदारी पूरी हुई—इस सफलता की भावना के साथ वे दोनों भाग गए।

    ४३. लेकिन हा धिक्कार! यद्यपि वह किंग्सफोर्ड महोदय की ही बग्घी थी, लेकिन उसमें वह मौजूद नहीं था।

    ४४. कैनेडी नामक अधिकारी की पत्नी और बेटी उसमें थीं।

    ४५. वे दोनों मारी गईं, लेकिन किंग्सफोर्ड बच गया।

    ४६. पूरी रात दोनों क्रांतिकारी भागते रहे।

    ४७. लेकिन दुर्भाग्य से अंग्रेज़ पुलिसकर्मियों ने उन्हें पकड़ लिया।

    ४८. वीर प्रफुल्ल द्वारा अंग्रेज़ों के विरोध में किया गया बचाव का प्रयास व्यर्थ हो गया।

    ४९. जब कोई दूसरा रास्ता नहीं बचा, तो प्रफुल्ल ने मन में भारत माता को प्रणाम करके और 'वंदे मातरम' का नारा लगाकर अपनी ही बंदूक से अपनी छाती पर गोली चला ली।

    ५०. वीर बालक प्रफुल्ल अपने बलिदान (शहादत) से अमर हो गए।

    ५१. अंग्रेज़ों द्वारा पकड़े गए खुदीराम को अदालत में ले जाया गया।

    ५२. वहाँ वकीलों के हर सवाल का खुदीराम का एक ही पक्का जवाब था - 'वंदे मातरम'।

    ५३. न्यायाधीश ने निर्दयतापूर्वक बालक खुदीराम को फाँसी (उद्बन्धनम्) की मौत की सज़ा सुनाई।

    ५४. देशभक्त खुदीराम के चेहरे पर कोई डर या दुख नहीं था, बल्कि प्रसन्नता, शांति, संतुष्टि और तेज था।

    ५५. यह देखकर न्यायाधीश और अंग्रेज़ अधिकारी भी हैरान रह गए।

    ५६. वर्ष 1908 के अगस्त महीने की 11 तारीख (11-08-1908) को बहुत छोटी उम्र में ही देश की आज़ादी के लिए खुदीराम शहीद हो गए।

    ५७. अपनी प्यारी भारत माता के दर्शन के लिए वे हँसते हुए, 'वंदे मातरम' का जाप करते हुए खुशी-खुशी स्वर्ग सिधार गए।


    SECTION 7 — English Translation


    1. We have celebrated the Amrit Mahotsav (75th anniversary) year of India's independence.

    2. Do we know how many known and unknown revolutionaries sacrificed their families and their own lives as offerings in the fire of the freedom struggle to grant independence to the country?

    3. Students! All those revolutionaries must always be revered by us with a sense of immense gratitude.

    4. Khudiram is one such brilliant child-revolutionary and martyr among those patriots.

    5. The biographical account of the revolutionary Khudiram is briefly described here.

    6. The Bengal province was at the forefront of the armed rebellion in India's freedom struggle.

    7. In that Bengal province, in the Medinipur district, in the village of Mohobani, Khudiram was born on the third day of December in the year 1889.

    8. His father's name was Trailokyanath, and his mother's name was Lakshmipriya Devi.

    9. During Khudiram's early childhood itself, his parents passed away.

    10. Therefore, his upbringing and nourishment were done by his elder sister, Aparupa Devi.

    11. From childhood itself, Khudiram was extraordinary.

    12. Unlike normal children, his mind did not delight in playing and games.

    13. He used to get deeply distressed seeing the atrocities being committed against his countrymen.

    14. The British were terrified by the massive secret activities of the revolutionaries in the Bengal province.

    15. India's then Viceroy, Lord Curzon, decided to implement a religion-based partition of Bengal to suppress this bravery, destroy their enthusiasm, and crush their patriotism.

    16. In the year 1905, he divided the Bengal province into two parts.

    17. Due to this action of his, a mass movement erupted not only in Bengal but across the entire country.

    18. The name of that mass movement was the Vanga-Bhanga Andolan (Anti-Partition Movement).

    19. Even though Khudiram was only fifteen years old at that time, inspired by the feeling of patriotism, he jumped into the mass movement.

    20. His only resolution was to liberate the revered Mother India from the chains of British slavery.

    21. Therefore, he could not even complete his 9th-grade education.

    22. Because the lives of patriots are dedicated to the nation.

    23. Forming an organization of youths, he used to arrange foot marches (padayatras).

    24. In those marches, patriotic songs were sung, and slogans like 'Vande Mataram' were chanted.

    25. Through these foot marches, he distributed pamphlets intended for public awakening among the people.

    26. Once, while distributing pamphlets, Khudiram was caught by the British.

    27. But the capable Khudiram beat up the British and escaped from there.

    28. Many secret societies operated by revolutionaries in Bengal generated terror in the minds of the British.

    29. The director of one such secret society was Satyendranath.

    30. Khudiram, along with his friend Prafulla, went and met Satyendranath.

    31. Satyendranath advised - "To carry out revolutionary work, one's body must be as strong as a thunderbolt, intellect as sharp as the edge of a sword, and mind as pure as the water of the Ganga."

    32. After that, both of them received an eight-month training from a secret training center.

    33. They very quickly became experts in operating firearms as well.

    34. Inspired by the character of Rana Pratap, Khudiram took a vow saying, 'Until India is freed from British rule, I will not wear shoes.'

    35. The chief judicial British officer of the Calcutta district, 'Kingsford', used to punish Indian patriots very harshly.

    36. He was so merciless that he didn't even spare children.

    37. When his transfer occurred to Muzaffarpur, the armed revolutionary group decided that 'he must be killed'.

    38. The complete responsibility for the assassination plan was taken by Prafulla and Khudiram.

    39. A meticulous plan for his assassination was formulated by the two.

    40. On the 28th of April in the year 1908 (28-04-1908), Prafulla and Khudiram threw a bomb at the special carriage belonging to Kingsford.

    41. A massive explosion occurred. The flames touched the sky.

    42. 'Kingsford is dead', our responsibility is fulfilled—with this feeling of accomplishment, they fled.

    43. But alas! Even though it was indeed Mr. Kingsford's carriage, he was not in it.

    44. The wife and daughter of an officer named Kennedy were in it.

    45. They died, but Kingsford was saved.

    46. Both the revolutionaries ran all night.

    47. But unfortunately, the British police caught them.

    48. The attempt of retaliation made by the brave Prafulla against the British was in vain.

    49. Left with no other option, Prafulla mentally bowed to Mother India, shouted 'Vande Mataram', and shot himself in the chest with his own gun.

    50. The brave boy Prafulla became immortal through his martyrdom.

    51. Khudiram, captured by the British, was taken to court.

    52. There, to every single question from the lawyers, Khudiram had only one firm answer: 'Vande Mataram'.

    53. The judge mercilessly pronounced the death penalty by hanging for the young boy Khudiram.

    54. There was no fear or sorrow on the face of the patriot Khudiram; instead, there was happiness, peace, satisfaction, and a radiant glow.

    55. Seeing this, the judge and the British officers were shocked.

    56. On the 11th of August in the year 1908 (11-08-1908), at a very young age, Khudiram became a martyr for the freedom of the country.

    57. For the sake of seeing his beloved Mother India again, he went to heaven happily, smiling and chanting Vande Mataram.


    SECTION 8 — सारांश

    HINDI:

    यह पाठ अमर शहीद खुदीराम बोस के प्रेरणादायक जीवन पर आधारित एक जीवनी है। खुदीराम का जन्म 1889 में बंगाल में हुआ था। बचपन में ही माता-पिता का साया उठ जाने के बाद उनकी बड़ी बहन ने उनका पालन-पोषण किया। बचपन से ही उनका मन खेल-कूद की जगह देश की आज़ादी के विचारों में लगा रहता था। 1905 में बंगाल विभाजन (बंग-भंग) के बाद मात्र 15 वर्ष की आयु में वे स्वतंत्रता आंदोलन में कूद पड़े। उन्होंने अपने मित्र प्रफुल्ल चाकी के साथ क्रूर अंग्रेज़ जज किंग्सफोर्ड की हत्या की योजना बनाई। 1908 में उन्होंने किंग्सफोर्ड की बग्घी पर बम फेंका, लेकिन दुर्भाग्य से किंग्सफोर्ड बच गया और दो निर्दोष महिलाएं मारी गईं। पुलिस द्वारा घेरे जाने पर प्रफुल्ल ने स्वयं को गोली मार ली, जबकि खुदीराम को पकड़ लिया गया। अदालत में निडरता से 'वंदे मातरम' का उद्घोष करते हुए, मात्र 18 वर्ष की आयु में खुदीराम हँसते-हँसते फाँसी के फंदे पर झूल गए।


    ENGLISH:

    This chapter is an inspiring biography of the immortal martyr Khudiram Bose. Born in Bengal in 1889, he lost his parents early and was raised by his elder sister. Unlike other children, his mind was occupied with the country's freedom rather than games. Following the partition of Bengal in 1905, he plunged into the freedom movement at the tender age of 15. Along with his friend Prafulla Chaki, he planned to assassinate the cruel British judge, Kingsford. In 1908, they threw a bomb at his carriage; however, Kingsford survived, and two innocent women died instead. When cornered by the police, Prafulla shot himself to avoid capture, while Khudiram was arrested. Fearlessly chanting 'Vande Mataram' in court, the young hero embraced the gallows with a smile at the age of 18, becoming a symbol of supreme sacrifice.


    SECTION 9 — केंद्रीय भाव एवं मूल्य

    9A. विषय-वस्तु सारणी

    विषय

    पाठ में स्पष्टीकरण

    मुख्य विषय

    खुदीराम बोस का जीवन, उनकी अटूट देशभक्ति और सर्वोच्च बलिदान। (Life, unwavering patriotism, and supreme sacrifice of Khudiram Bose.)

    बलिदान का महत्त्व

    स्वतंत्रता सहज नहीं मिली, बल्कि अनगिनत वीरों के रक्त और त्याग से प्राप्त हुई है। (Freedom was not achieved easily, but through the blood and sacrifice of countless heroes.)

    युवा शक्ति

    युवावस्था में ही राष्ट्र के प्रति समर्पण का उत्कृष्ट उदाहरण। (An outstanding example of dedication to the nation at a very young age.)

    9B. मानवीय एवं सांस्कृतिक मूल्य


    • देशभक्तिः / राष्ट्रप्रेमम् (देशभक्ति / Patriotism)

      • यतोहि देशभक्तानां जीवनं राष्ट्राय समर्पितं भवति ।

      • यह पाठ सिखाता है कि मातृभूमि से बढ़कर कुछ नहीं है और उसके लिए अपना सर्वस्व न्योछावर कर देना चाहिए।

      • (Teaches that the motherland is supreme and one should be ready to sacrifice everything for it.)


    • शौर्यम् / साहसम् (वीरता और साहस / Courage and Bravery)

      • किन्तु सामर्थ्यसम्पन्नः खुदीरामः आङ्ग्लानां ताडनं कृत्वा ततः निरगच्छत्।

      • खुदीराम और प्रफुल्ल का चरित्र हमें अन्याय के खिलाफ निडर होकर लड़ने का साहस देता है।

      • (Inspires us to fight fearlessly against injustice and oppression.)


    • त्यागः / हौतात्म्यम् (बलिदान / Sacrifice)

      • प्रियभारतमातुः दर्शनार्थं सः हसन्, वन्दे मातरम् इति जपन् आनन्देन दिवं गतः ।

      • स्वतंत्रता के लिए फाँसी के फंदे को हँसते-हँसते चूम लेना निःस्वार्थ त्याग का सबसे बड़ा मूल्य है।

      • (Kissing the gallows with a smile for freedom is the highest value of selfless sacrifice.)


    EXAM TIP:मूल्यपरक प्रश्न 2-4 अंकों के लिए नियमित आते हैं।Always name the value in Sanskrit first (e.g., देशभक्तिः, शौर्यम्).

    SECTION 10 — पात्र परिचय (Character Sketches)


    १. खुदीरामः (Khudiram Bose)

    SANSKRIT:

    खुदीरामः भारतस्य स्वतन्त्रतासङ्ग्रामस्य कश्चन तेजस्वी बालक्रान्तिवीरः अस्ति। तस्य मुख्यगुणाः अदम्यसाहसम्, देशभक्तिः, मातृभूमिप्रतित्यागः च आसन्। पाठे सः पञ्चदशवर्षीयः सन् एव आन्दोलने कूर्दितः। मृत्युदण्डं श्रुत्वा अपि सः हसन् आसीत्। प्रमाणम् - "राष्ट्रभक्तस्य खुदीरामस्य मुखे भयं दुःखं वा नासीत् प्रत्युत प्रसन्नता आसीत्।"

    हिंदी अनुवाद:

    खुदीराम भारत के स्वतंत्रता संग्राम के एक अत्यंत तेजस्वी बाल-क्रांतिकारी हैं। उनके मुख्य गुण अदम्य साहस, देशभक्ति और मातृभूमि के प्रति त्याग थे। पाठ में वे 15 वर्ष की आयु में ही आंदोलन में कूद पड़े। मौत की सज़ा सुनकर भी वे हँस रहे थे।

    English:

    Khudiram is a brilliant child-revolutionary of India's freedom struggle. His main virtues were indomitable courage, patriotism, and sacrifice for the motherland. In the text, he jumped into the movement at the age of 15. Even after hearing the death penalty, he was smiling.


    २. प्रफुल्लः (Prafulla Chaki)

    SANSKRIT:

    प्रफुल्लः खुदीरामस्य घनिष्ठमित्रं सहक्रान्तिकारी च आसीत्। तस्य मुख्यगुणाः शौर्यम् आत्मोत्सर्गः च। पाठे सः किङ्ग्ज़फोर्ड्-वधयोजनायां खुदीरामेण सह आसीत्। यदा आङ्ग्लाः तं ग्रहीतुम् आगताः तदा सः आत्मबलिदानं कृतवान्।

    हिंदी अनुवाद:

    प्रफुल्ल खुदीराम के घनिष्ठ मित्र और सह-क्रांतिकारी थे। उनके मुख्य गुण शौर्य और आत्म-बलिदान (स्वयं को न्योछावर करना) हैं। पाठ में वे किंग्सफोर्ड की हत्या की योजना में खुदीराम के साथ थे। जब अंग्रेज़ उन्हें पकड़ने आए, तो उन्होंने अपना बलिदान दे दिया।

    English:

    Prafulla was Khudiram's close friend and co-revolutionary. His main qualities were extreme bravery and self-sacrifice. He partnered with Khudiram in the Kingsford assassination plan. When cornered by the British, he embraced martyrdom by shooting himself.


    SECTION 11 — गद्यांश आधारित प्रश्न

    गद्यांशः १

    बङ्गप्रान्तः भारतस्य स्वतन्त्रतासङ्ग्रामे सशस्त्रान्दोलने अग्रेसरः आसीत् । तस्मिन् बङ्गप्रान्ते मेदिनीपुरनामके जनपदे मोहोबनी-ग्रामे नवाशीत्यधिक-अष्टादशशततमे वर्षे (१८८९) दिसम्बरमासस्य तृतीये दिनाङ्के खुदीरामस्य जन्म अभवत्। तस्य जनकस्य नाम त्रैलोक्यनाथः इति, जनन्याः नाम लक्ष्मीप्रिया देवी च आसीत्। खुदीरामस्य बाल्यकाले एव तस्य पितरौ दिवङ्गतौ। अतः तस्य अग्रजया अपरूपादेव्या एव खुदीरामस्य पालनं पोषणं च कृतम्। बाल्यकालतः एव खुदीरामः असाधारणः आसीत् ।


    प्र.(i) — अर्थबोध (1 mark):

    बाल्यकाले खुदीरामस्य पालनं पोषणं च कया कृतम्?

    (क) मात्रया (ख) अग्रजया अपरूपादेव्या

    (ग) पितामह्या (घ) पित्रा

    उत्तरम्: (ख)

    हिंदी: गद्यांश के अनुसार, बचपन में ही माता-पिता का देहांत हो जाने के कारण खुदीराम का पालन-पोषण उनकी बड़ी बहन (अग्रजा) अपरूपा देवी ने किया था।

    English: According to the text, since his parents passed away early, Khudiram was raised by his elder sister, Aparupa Devi.


    प्र.(ii) — अन्वय पूर्तिः (1 mark):

    मञ्जूषातः पदं चित्वा अन्वयं पूरयत —

    [ त्रैलोक्यनाथः / असाधारणः / जनन्याः ]

    तस्य जनकस्य नाम _______ इति, जनन्याः नाम लक्ष्मीप्रिया देवी च आसीत्।

    उत्तरम्: त्रैलोक्यनाथः

    हिंदी: पिता (जनक) का नाम त्रैलोक्यनाथ था।

    English: The father's (Janakasya) name was Trailokyanath.


    प्र.(iii) — शब्दार्थ (1 mark):

    'दिवङ्गतौ' इति पदस्य अर्थः अस्ति —

    (क) आगतौ (ख) विदेशं गतौ

    (ग) मृतौ (घ) जीवितौ

    उत्तरम्: (ग)

    हिंदी: 'दिवङ्गतौ' का अर्थ है 'स्वर्ग सिधार गए' अर्थात् मृत हो गए।

    English: Divangatau means 'went to heaven' or passed away.


    प्र.(iv) — प्रश्ननिर्माणम् (1 mark):

    अधोलिखितवाक्ये रेखाङ्कितपदम् आश्रित्य प्रश्नं रचयत —

    बङ्गप्रान्तः भारतस्य स्वतन्त्रतासङ्ग्रामे अग्रेसरः आसीत् ।

    उत्तरम्: कः भारतस्य स्वतन्त्रतासङ्ग्रामे अग्रेसरः आसीत् ?

    हिंदी: 'बङ्गप्रान्तः' पुल्लिंग प्रथमा विभक्ति एकवचन है, इसलिए 'कः' (कौन) का प्रयोग होगा।

    English: 'Vangaprantah' is a masculine singular subject, so 'Kah' is used to form the question.


    गद्यांशः २

    तस्य स्थानान्तरणं यदा मुज़फ्फरनगरे जातं तदा 'सः हन्तव्यः' इति सशस्त्रक्रान्तिवीरमण्डलेन निश्चितम्। हत्यायोजनायाः सम्पूर्णम् उत्तरदायित्वं प्रफुल्ल-खुदीरामाभ्यां स्वीकृतम्। तस्य वधस्य सूक्ष्मा योजनापि द्वाभ्यां निर्मिता। अष्टाधिक-नवदशशततमवर्षस्य एप्रिलमासस्य अष्टाविंशे दिनाङ्के (२८-०४-१९०८) किङ्ग्ज़फोर्ड् इत्यस्य रथविशेषे प्रफुल्ल-खुदीरामाभ्यां विस्फोटकं प्रक्षिप्तम्। महान् विस्फोटध्वनिः जातः । अग्निज्वालाः आकाशम् अस्पृशन्।


    प्र.(i) — अर्थबोध (1 mark):

    प्रफुल्ल-खुदीरामाभ्यां कस्य रथविशेषे विस्फोटकं प्रक्षिप्तम्?

    (क) कर्जनस्य (ख) किङ्ग्ज़फोर्ड् इत्यस्य

    (ग) केनेडीनामकस्य (घ) वायसरायस्य

    उत्तरम्: (ख)

    हिंदी: गद्यांश में स्पष्ट है कि उन्होंने 'किंग्सफोर्ड' की बग्घी (रथ) पर बम फेंका था।

    English: It is clearly stated that they threw the explosive at Kingsford's carriage.


    प्र.(ii) — अन्वय पूर्तिः (1 mark):

    मञ्जूषातः पदं चित्वा अन्वयं पूरयत —

    [ आकाशम् / निर्मिता / विस्फोटध्वनिः ]

    तस्य वधस्य सूक्ष्मा योजनापि द्वाभ्यां _______ ।

    उत्तरम्: निर्मिता

    हिंदी: उसकी हत्या की सूक्ष्म योजना उन दोनों के द्वारा 'बनाई गई' (निर्मिता)।

    English: The meticulous plan for his murder was 'formulated' (nirmita) by both.


    प्र.(iii) — शब्दार्थ (1 mark):

    'प्रक्षिप्तम्' इति पदस्य अर्थः अस्ति —

    (क) रक्षितम् (ख) क्षिप्तम् / फेका गया

    (ग) भक्षितम् (घ) नीतम्

    उत्तरम्: (ख)

    हिंदी: प्रक्षिप्तम् का अर्थ है 'फेंका गया'।

    English: Prakshiptam means 'was thrown'.


    प्र.(iv) — प्रश्ननिर्माणम् (1 mark):

    अधोलिखितवाक्ये रेखाङ्कितपदम् आश्रित्य प्रश्नं रचयत —

    अग्निज्वालाः आकाशम् अस्पृशन्।

    उत्तरम्: अग्निज्वालाः किम् अस्पृशन्?

    हिंदी: 'आकाशम्' नपुंसकलिंग द्वितीया विभक्ति है (क्या छुआ?), इसलिए 'किम्' का प्रयोग होगा।

    English: 'Aakasham' is the object (touched what?), so 'Kim' is used.


    SECTION 12 — लघु उत्तरीय प्रश्न (3 Marks)

    प्र१. खुदीरामः बाल्यकाले किमर्थं व्यथितः भवति स्म?

    मूल बिंदु 1 (VP1): देशवासिषु अत्याचारदर्शनम् (Seeing atrocities on countrymen)

    मूल बिंदु 2 (VP2): देशभक्तेः भावना (Feeling of patriotism)

    उत्तरम् (Sanskrit):

    खुदीरामः बाल्यकालात् एव असाधारणः देशभक्तः च आसीत्। सः क्रीडादिषु मनः न रमयति स्म, अपि तु देशवासिषु आङ्ग्लैः क्रियमाणान् अत्याचारान् दृष्ट्वा अतीव व्यथितः दुःखी च भवति स्म।

    हिंदी अनुवाद:

    खुदीराम बचपन से ही असाधारण और देशभक्त थे। उनका मन खेल-कूद में नहीं लगता था, बल्कि देशवासियों पर अंग्रेज़ों द्वारा किए जा रहे अत्याचारों को देखकर वे बहुत दुखी और परेशान होते थे।

    English:

    Khudiram was extraordinary and patriotic right from his childhood. His mind did not delight in playing games; instead, he used to get deeply distressed and saddened seeing the atrocities committed by the British against his countrymen.


    प्र२. वायसरायः कर्जनः बङ्गप्रान्तस्य विभजनं किमर्थं निश्चितवान्?

    मूल बिंदु 1 (VP1): क्रान्तिवीराणां वीरत्वदमनम् (To suppress the bravery of revolutionaries)

    मूल बिंदु 2 (VP2): देशभक्तेः मर्दनम् (To crush patriotism)

    उत्तरम् (Sanskrit):

    भारतस्य तात्कालिकः वायसरायः कर्जनः क्रान्तिवीराणां गुप्तगतिविधिभिः संत्रस्तः आसीत्। अतः सः बङ्गप्रान्तस्य वीरत्वं दमयितुम्, उत्साहं ध्वंसयितुं देशभक्तिं च मर्दयितुं बङ्गप्रान्तस्य विभजनं निश्चितवान्।

    हिंदी अनुवाद:

    भारत का तत्कालीन वायसराय कर्जन क्रांतिकारियों की गुप्त गतिविधियों से डरा हुआ था। इसलिए उसने बंगाल प्रांत की वीरता का दमन करने, उनके उत्साह को नष्ट करने और देशभक्ति को कुचलने के लिए बंगाल के विभाजन का निश्चय किया।

    English:

    India's then Viceroy, Curzon, was terrified by the secret activities of the revolutionaries. Therefore, to suppress the bravery of the Bengal province, destroy their enthusiasm, and crush their patriotism, he decided to partition Bengal.


    प्र३. खुदीरामः काम् प्रतिज्ञां कृतवान्?

    मूल बिंदु 1 (VP1): राणाप्रतापस्य प्रेरणया (Inspired by Rana Pratap)

    मूल बिंदु 2 (VP2): पादत्राणं न धारणस्य सङ्कल्पः (Vow not to wear shoes)

    उत्तरम् (Sanskrit):

    राणाप्रतापस्य चरित्रेण प्रेरितः खुदीरामः प्रतिज्ञां कृतवान् यत् - "यावत् भारतदेशः आङ्ग्लशासनात् पूर्णतया मुक्तः न भविष्यति, तावत् अहम् पादत्राणं न धरिष्यामि" इति। एषा प्रतिज्ञा तस्य राष्ट्रभक्तिं दर्शयति।

    हिंदी अनुवाद:

    राणा प्रताप के चरित्र से प्रेरित होकर खुदीराम ने यह प्रतिज्ञा की थी कि - "जब तक भारत देश अंग्रेज़ी शासन से पूरी तरह आज़ाद नहीं हो जाता, तब तक मैं पैरों में जूते नहीं पहनूँगा।" यह प्रतिज्ञा उनकी राष्ट्रभक्ति को दर्शाती है।

    English:

    Inspired by the character of Rana Pratap, Khudiram took a vow saying - "Until the country of India is completely free from British rule, I will not wear shoes." This vow demonstrates his extreme patriotism.


    प्र४. प्रफुल्लः कथं हुतात्मा जातः?

    मूल बिंदु 1 (VP1): आङ्ग्लानां ग्रहणभयम् (Fear of capture by the British)

    मूल बिंदु 2 (VP2): स्ववक्षसि गोलिकाप्रहारः (Shooting himself in the chest)

    उत्तरम् (Sanskrit):

    यदा आङ्ग्लाः आरक्षकाः प्रफुल्लं खुदीरामं च अगृह्णन्, तदा अनन्यगतिकः प्रफुल्लः आङ्ग्लानां हस्तगतः भवितुं न ऐच्छत्। सः 'वन्दे मातरम्' इति उद्घोष्य स्ववक्षःस्थले भुशुण्ड्या गोलिकाप्रहारं कृत्वा हुतात्मा जातः।

    हिंदी अनुवाद:

    जब अंग्रेज़ पुलिसकर्मियों ने प्रफुल्ल और खुदीराम को घेर लिया, तब लाचार प्रफुल्ल अंग्रेज़ों के हाथ नहीं आना चाहते थे। उन्होंने 'वंदे मातरम' का उद्घोष किया और अपनी ही बंदूक से अपनी छाती पर गोली चलाकर शहादत प्राप्त कर ली।

    English:

    When the British policemen cornered Prafulla and Khudiram, the helpless Prafulla did not want to be captured by the British. Shouting 'Vande Mataram', he shot himself in the chest with his gun and embraced martyrdom.


    SECTION 13 — दीर्घ उत्तरीय प्रश्न (5 Marks)

    प्र१. खुदीरामस्य चारित्रिक-विशेषताः उदाहरणैः सह स्पष्टीकुरुत।

    मूल बिंदु 1 (VP1): बाल्यकालतः देशभक्तिः (Patriotism from childhood)

    मूल बिंदु 2 (VP2): अदम्यसाहसं त्यागश्च (Indomitable courage and sacrifice)

    मूल बिंदु 3 (VP3): दृढनिश्चयः (Firm determination - shoe vow)

    मूल बिंदु 4 (VP4): मृत्योः भयं नास्ति (No fear of death - smiling at gallows)

    उत्तरम् (Sanskrit):

    खुदीरामबोसः भारतस्वातन्त्र्यसङ्ग्रामस्य अद्वितीयः बालक्रान्तिवीरः आसीत्। तस्य चरित्रे देशभक्तेः, साहसस्य, त्यागस्य च अद्भुतं मिश्रणं दृश्यते। सः बाल्यकालात् एव देशवासिनां दुःखेन व्यथितः भवति स्म। तस्य अदम्यसाहसस्य प्रमाणम् अस्ति यत् सः पञ्चदशवर्षीयः सन् एव जनान्दोलने कूर्दितः। तस्य दृढनिश्चयः राणाप्रतापवत् आसीत्, येन सः पादत्राणं न धारयितुं प्रतिज्ञां कृतवान्। किङ्ग्ज़फोर्ड्-वधप्रयासे तस्य शौर्यम् अनुपमम् अस्ति। यदा तस्मै मृत्युदण्डः उद्घोषितः, तदा तस्य मुखे भयं नासीत्, अपि तु सः हसन् 'वन्दे मातरम्' इति जपन् आनन्देन मृत्युम् आलिङ्गितवान्।

    हिंदी अनुवाद:

    खुदीराम बोस भारत के स्वतंत्रता संग्राम के एक अद्वितीय बाल-क्रांतिकारी थे। उनके चरित्र में देशभक्ति, साहस और त्याग का अद्भुत मिश्रण दिखाई देता है। वे बचपन से ही देशवासियों के दुख से दुखी होते थे। उनके अदम्य साहस का प्रमाण यह है कि वे मात्र 15 वर्ष की आयु में जन-आंदोलन में कूद पड़े थे। उनका दृढ़ निश्चय राणा प्रताप के समान था, जिससे उन्होंने जूते न पहनने की प्रतिज्ञा की थी। किंग्सफोर्ड की हत्या के प्रयास में उनकी वीरता बेजोड़ है। जब उन्हें मौत की सज़ा सुनाई गई, तो उनके चेहरे पर कोई डर नहीं था, बल्कि वे हँसते हुए 'वंदे मातरम' का जाप करते हुए खुशी-खुशी फाँसी पर चढ़ गए।

    English:

    Khudiram Bose was a unique child-revolutionary of India's freedom struggle. An amazing blend of patriotism, courage, and sacrifice is seen in his character. From childhood, he was pained by the suffering of his countrymen. Proof of his indomitable courage is that he jumped into the mass movement at just 15 years old. His firm determination was like Rana Pratap's, leading him to vow not to wear shoes. His bravery in the attempted assassination of Kingsford is unparalleled. When sentenced to death, there was no fear on his face; instead, he embraced death happily, smiling and chanting 'Vande Mataram'.


    प्र२. 'न खलु वयस्तेजसो हेतुः' इति पाठस्य शीर्षकं कथं सार्थकम् अस्ति? पाठस्य आधारेण स्पष्टीकुरुत।

    मूल बिंदु 1 (VP1): शीर्षकस्य अर्थः (Meaning of the title - Age is not the cause of brilliance)

    मूल बिंदु 2 (VP2): खुदीरामस्य अल्पायुः (Khudiram's young age)

    मूल बिंदु 3 (VP3): महताम् कार्याणां सम्पादनम् (Accomplishment of great deeds)

    मूल बिंदु 4 (VP4): हुतात्मत्वस्य गौरवम् (Glory of his martyrdom)

    उत्तरम् (Sanskrit):

    'न खलु वयस्तेजसो हेतुः' इत्यस्य अर्थः अस्ति यत् तेजस्विनां कृते आयुः (वयः) कदापि कारणं (बाधकं) न भवति अर्थात् वीरतायै अधिकवयोवृद्धेः आवश्यकता नास्ति। एतत् शीर्षकं खुदीरामस्य जीवने पूर्णतया सार्थकं भवति। खुदीरामः पञ्चदशवर्षीयः सन् एव देशस्य स्वतन्त्रतासङ्ग्रामे कूर्दितः। अष्टादशवर्षस्य अल्पायुषि सः किङ्ग्ज़फोर्ड्-सदृशं क्रूरम् आङ्ग्ल-अधिकारिणं हन्तुं योजनां कृतवान् विस्फोटकं च प्रक्षिप्तवान्। यदा सः आङ्ग्लानां हस्तगतः जातः तदा मृत्युदण्डं प्राप्य अपि सः न भीतः, प्रत्युत हसन् फाँसीदण्डं स्वीकृतवान्। बाल्ये वयसि एव एतादृशं महान्तं त्यागं दृष्ट्वा स्पष्टं भवति यत् तेजस्विनां वीरता वयसि न, अपि तु साहसे निवसति।

    हिंदी अनुवाद:

    'न खलु वयस्तेजसो हेतुः' का अर्थ है कि तेजस्वियों (महान लोगों) के लिए आयु कभी कारण (बाधा) नहीं होती, अर्थात् वीरता के लिए बड़ी उम्र की आवश्यकता नहीं होती। यह शीर्षक खुदीराम के जीवन पर पूरी तरह से सार्थक होता है। खुदीराम 15 वर्ष की आयु में ही देश के स्वतंत्रता संग्राम में कूद पड़े थे। 18 वर्ष की छोटी उम्र में उन्होंने किंग्सफोर्ड जैसे क्रूर अंग्रेज़ अधिकारी को मारने की योजना बनाई और बम फेंका। जब वे अंग्रेज़ों के हाथ पकड़े गए, तो मौत की सज़ा पाकर भी वे डरे नहीं, बल्कि हँसते हुए फाँसी को स्वीकार कर लिया। छोटी सी उम्र में ऐसा महान त्याग देखकर यह स्पष्ट हो जाता है कि तेजस्वियों की वीरता उम्र में नहीं, बल्कि साहस में निवास करती है।

    English:

    'Na khalu vayastejaso hetuh' means that age is never the cause (or barrier) for the brilliant ones, meaning that bravery does not require old age. This title is completely justified in the life of Khudiram. Khudiram jumped into the country's freedom struggle at the mere age of 15. At the young age of 18, he planned to kill a cruel British officer like Kingsford and threw a bomb at him. When captured by the British, he was not afraid even after receiving the death penalty; rather, he accepted the hanging with a smile. Seeing such a supreme sacrifice at such a young age, it becomes clear that the heroism of brilliant individuals lies in their courage, not in their age.

    About BhashaLab


    BhashaLab is a dynamic platform dedicated to the exploration and mastery of languages - operating both online and offline. Aligned with the National Education Policy (NEP) 2020 and the National Credit Framework (NCrF), we offer language education that emphasizes measurable learning outcomes and recognized, transferable credits.


    We offer:

    1. NEP alligned offline language courses for degree colleges - English, Sanskrit, Marathi and Hindi

    2. NEP alligned offline language courses for schools - English, Sanskrit, Marathi and Hindi

    3. Std VIII, IX and X - English and Sanskrit Curriculum Tuitions - All boards

    4. International English Olympiad Tuitions - All classes

    5. Basic and Advanced English Grammar - Offline and Online - Class 3 and above

    6. English Communication Skills for working professionals, adults and students - Offline and Online


    Contact: +91 86577 20901, +91 97021 12044




     
     
     

    Comments


    bottom of page