5. एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी - Esha Sa Krtakabuddhih Manavabuddheh Sahakari - Class 9 - Sharada
- Jun 11
- 25 min read

SECTION 1 — पाठ परिचय
विवरण | जानकारी |
पाठ का नाम: | एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी (Eshā Sā Kṛtakabuddhiḥ Mānavabuddheḥ Sahakarī) |
विधा: | गद्य पाठ — वार्तालापः / संवादात्मकः लेखः |
स्रोत/ग्रंथ: | स्वतन्त्ररचना (आधुनिक-विज्ञान-विषयकः) |
लेखक/कवि: | अज्ञात (NCERT सङ्कलितः) |
पाठ्यपुस्तक: | शारदा, NCERT कक्षा 9 संस्कृत, 2026-27 |
परीक्षा खंड: | खंड-घ (साहित्य) — 25-30 अंक |
SECTION 2 — पाठ/विषय परिचय
SANSKRIT:
अयं पाठः आधुनिकविज्ञानस्य सर्वतो महत्त्वपूर्णविषये 'कृतकबुद्धौ' (Artificial Intelligence) आधारितः अस्ति। पाठेऽस्मिन् अध्यापक-छात्राणां वार्तालापमाध्यमेन कृतकबुद्धेः स्वरूपम्, तस्याः उपयोगक्षेत्राणि, लाभाः, सम्भाव्यदोषाः च वर्णिताः सन्ति। कृतकबुद्धिः मानवानां सहायिका अस्ति, न तु मनुष्यस्य विकल्पः इति बोधयितुम् अस्य पाठस्य रचना कृता।
हिंदी अनुवाद:
यह पाठ आधुनिक विज्ञान के सबसे महत्वपूर्ण विषय 'कृत्रिम बुद्धिमत्ता' (Artificial Intelligence) पर आधारित है। इस पाठ में शिक्षक और छात्रों की बातचीत के माध्यम से ए.आई. के स्वरूप, उसके उपयोग के क्षेत्रों, लाभों और संभावित खतरों (जैसे डीप-फेक) का वर्णन किया गया है। इसका उद्देश्य यह समझाना है कि कृत्रिम बुद्धिमत्ता मनुष्य की सहायक है, मनुष्य का विकल्प नहीं।
English:
This chapter focuses on the most significant topic of modern science: Artificial Intelligence (AI). Through a conversation between a teacher and students, it explains the nature of AI, its applications, benefits, and potential risks (like Deepfakes). The primary objective is to convey that AI is a helper to humanity, not a replacement for human intelligence.
EXAM TIP:परीक्षा में इस पाठ से 'डीप्-फेक्' (Deepfake) और शिक्षा/चिकित्सा में AI के उपयोग से संबंधित प्रश्न 5 अंकों के दीर्घ उत्तरीय या 3 अंकों के लघु उत्तरीय प्रश्नों में निश्चित रूप से पूछे जाते हैं।
SECTION 3 — मूल पाठ
१। आधुनिके विज्ञानयुगे यदा मानवजीवनं द्रुतगत्या परिवर्तनशीलम् अस्ति, तदा अत्र कृतकबुद्धिः प्रभावशालि-साधनरूपेण समुपस्थिता वर्तते।
२। अत्र यन्त्राणि मानववत् चिन्तयन्ति, निर्णयं च कुर्वन्ति ।
३। अहो ! अवलोकनीयं कृतकबुद्धेः सामर्थ्यं तत्र ।
४। अस्मिन् पाठे "कृतकबुद्धिः मानवबुद्धेः सहकरी" इति कश्चित् वार्तालापः प्रस्तुतः अस्ति।
५। यत्र अध्यापकः छात्राः च मिलित्वा कृतकबुद्धेः स्वरूपम्, उपयोगक्षेत्राणि, लाभान् सीमां च अधिकृत्य चर्चां कुर्वन्ति ।
६। (स्थानं – विद्यालयकक्षा। अध्यापकः कक्षायां प्रविशति ।)
७। सर्वे छात्राः - शुभप्रभातं, गुरुवर्य !
८। अध्यापकः - शुभप्रभातं, प्रियच्छात्राः !
९। यशिका - महोदय ! अद्य अहम् किञ्चन चालकरहितं पटु-कारयानं दृष्टवती । अहम् आश्चर्यचकिता। किम् एतत् संभवम् ?
१०। अध्यापकः - अवश्यं यशिके ! एतत् कृतकबुद्ध्या सम्भवति ।
११। कात्यायनी - महोदय ! केयं कृतकबुद्धिः, अद्य वयम् अस्याः विषये ज्ञातुमिच्छामः।
१२। अध्यापकः - अद्यत्वे अयं बहुचर्चितः विषयः अस्ति। भवत्सु कृतकबुद्धेः विषये कोऽपि जानाति वा ?
१३। श्रेया - आचार्य ! अहं जानामि। यदा यन्त्राणि मनुष्यवत् चिन्तयन्ति, निर्णयं कुर्वन्ति, कार्यं च कुर्वन्ति, तदा तत्र कृतकबुद्धिः उपस्थिता अस्ति इति जानीमः ।
१४। अध्यापकः - सुष्ठु ! यया अचेतनयन्त्राणि मानवबुद्धिवत् कार्यं कुर्वन्ति, सा कृतकबुद्धिः इति वैज्ञानिकाः मन्यन्ते।
१५। अथर्वः - आम्, चैट-जीपीटी इति नामकं संवादोपकरणमपि कृतकबुद्ध्या युक्तम् अस्ति।
१६। अध्यापकः - साधु ! चैट-जीपीटी, सिरि, एलेक्सा, गूगल मानचित्रं, जेमिनि, मेटा-कृतकबुद्धिः, परप्लेक्सिटि चेत्यादयः अनुप्रयुक्ततन्त्रविशेषाः कृतकबुद्धियुक्ताः सन्ति ।
१७। यशिका - अहं चैट-जीपीटी इत्यनेन अनेकेषां प्रश्नानां यथेष्टम् उत्तराणि प्राप्तवती । इदं कृतकबुद्ध्याः कारणात् एव संभवम्।
१८। अथर्वः - मम माता 'एलेक्सा' नामकस्य यन्त्रस्य उपयोगं करोति । एतत् गीतं गायति, विद्युद्दीपं ज्वालयति, दैनिकसंवादं वातावरणस्थितिं च सूचयति ।
१९। पावनी - अहो ! मम माता गूगल-सहायकेन सह वार्तां करोति ।
२०। अध्यापकः - साधु ! एषा काचित् 'बुद्धिमती' यन्त्रप्रणाली अस्ति। किं यूयं जानीथ कृतकबुद्धेः कतिपयाः प्रमुखाः प्रकाराः सन्ति ?
२१। अक्षतः - के ते प्रकाराः मान्यवर !
२२। अध्यापकः - ते सन्ति:
• सङ्कुचितकृतकबुद्धिः – जीपीटी, गूगल-मानचित्रं, यू-ट्यूब् ।
• सामान्यकृतकबुद्धिः - मानवसमाना बुद्धिमत्ता (एतत् लक्ष्यं भवति)।
• अत्युत्कृष्टकृतकबुद्धिः - मानवात् अपि अधिका बुद्धिमती – एषा काल्पनिकी अस्ति।
२३। आर्यः - किन्तु आचार्य ! अस्माकं बुद्धिस्तु ईश्वरेण मस्तिष्के स्थापिता अस्ति, कथम् एषा बुद्धिः यन्त्रे स्थाप्यते ?
२४। अध्यापकः - उत्तमः प्रश्नः । प्रौद्योगिकीविशारदाः यन्त्राधिगमः, गहनाधिगमः चेति विधिना एतानि यन्त्राणि प्रशिक्षयन्ति, अनुप्रयोगाय च सज्जीकुर्वन्ति ।
२५। यशिका - यन्त्राणामपि पाठशाला अस्ति वा? (सर्वे हसन्ति)
२६। अध्यापकः - अस्याः यन्त्रपाठशालायाः नाम "डेटासेट्” इति ! कृतकबुद्धिः यन्त्रं दत्तांशमाध्यमेन शिक्षणं करोति ।
२७। श्रेया - किन्तु आचार्य ! यदि अशुद्धदत्तांशः दीयते तर्हि कृतकबुद्धिः अपि त्रुटिं करोति ?
२८। अध्यापकः - आम्। यदा प्रशिक्षणदत्तांशः पक्षपातयुक्तः भवति, तदा निष्कर्षाः अपि पक्षपातयुक्ताः भवन्ति । एषः दोषः 'पूर्वग्रहः' इति कथ्यते। कृतकबुद्धिः अद्यापि विकासपदे अस्ति।
२९। अथर्वः - गुरुवर ! एषा बुद्धिः केषु स्थलेषु उपयुज्यते ?
३०। अध्यापकः - तव प्रश्नः अतीव महत्त्वपूर्णः । शिक्षायां, चिकित्सायां, कृषि-क्षेत्रे, न्यायालये, सञ्चारे, वित्ते, कलासङ्गीतक्षेत्रे मनोरञ्जनादिषु क्षेत्रेषु च कृतकबुद्धिः भूरिशः उपयुज्यते ।
३१। यशिका - महोदय ! कृतकबुद्धिः कथं शिक्षायां साहाय्यं करोति ? किं शिक्षकस्य स्थाने कृतकबुद्धिः अस्मान् पाठयिष्यति ? एतत् कथं सम्भवति ?
३२। अध्यापकः - दीक्षा, स्वयम्, सर्वेषां कृते कृतकबुद्धिः, पी.एम्.-ईविद्या, संशयनिराकरणार्थं चैट्बोट्, भाषानुवादोपकरणानि च यत्र प्रयुज्यन्ते। एतानि कृतकबुद्ध्याधारितानि उपकरणानि सन्ति । एतेषां साहाय्येन छात्राः शिक्षकाणाम् अनुपस्थितौ अपि स्वयम् अध्येतुं शक्नुवन्ति ।
३३। आकाशः - हा धिक् ! एतेषां कारणेन मानवशिक्षकः किं प्रयोजनरहितः भविष्यति ?
३४। अध्यापकः - न न ! कृतकबुद्धिः गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति। शिक्षकाणां सान्निध्ये छात्रेषु व्यक्तित्वविकासः भवति। शिक्षकाः पुस्तकीयज्ञानेन सह छात्रेषु मानवीयमूल्यबोधम् अपि जनयन्ति । ते अनुशासनं, परोपकारं, करुणां, तथैव व्यवहारज्ञानं च शिक्षयन्ति। सदा स्मरणीयं यत् कृतकबुद्धिः उपकरणम् अस्ति, प्रेरणा तु मानवेभ्यः एव आगच्छति।
३५। वेदः - अहम् कस्मिंश्चित् चलच्चित्रे दृष्टवान् यत् यन्त्राणि मानवेभ्यः संसारम् अधिगृह्णन्ति इति।
३६। यशिका - अपि च, आचार्य ! किं कृतकबुद्धिः मानवस्य स्थानं हर्तुं शक्नोति ?
३७। अध्यापकः - एषा चिन्ता समाजे प्रगाढं जायमाना अस्ति, किन्तु अत्र बोद्धव्यं यत् कृतकबुद्धिः सहायिका अस्ति, मनुष्यस्य प्रतिस्पर्धिनी न।
३८। आर्यः - महोदय ! किं कृतकबुद्धिः चिकित्सायाम् अपि प्रयुज्यते ?
३९। अध्यापकः - आम् ! रोबोटिक्-सर्जरी, रोग-पूर्वज्ञानं, रश्मिपरीक्षणविद्या, चैट-कृतकबुद्धिः, औषधशुश्रूषा चेत्यादीनि तदाधारितानि चिकित्सोपकरणानि सन्ति ।
४०। अक्षतः - किं कृषि-क्षेत्रे अपि प्रयुज्यते ?
४१। अध्यापकः - नूनं ! कृषि-क्षेत्रे अपि ड्रोनमाध्यमेन बीज-वपनं, कीटनिरीक्षणं, भूमिक्षमता-चेत्यादीनां परीक्षणम् अपि यन्त्रैः भवन्ति ।
४२। अथर्वः - गुरुदेव ! अपराधशमनाय कृतकबुद्धिः कथं साहाय्यं करोति ?
४३। अध्यापकः - मुखपरिचयप्रणाली, पूर्वानुमेय-नियन्त्रणं चेत्यादि-योजनासु कृतकबुद्धेः प्रयोगः अस्ति।
४४। यशिका - किं कृतकबुद्धिः काव्यमपि रचयितुं समर्था ?
४५। अध्यापकः - अत्र भवन्तः किं चिन्तयन्ति ?
४६। वेदः - अहं चैट-जीपीटी इत्यस्मात् एनं श्लोकं प्राप्तवान् -
४७। विद्युत्प्रज्ञया यन्त्राणि नित्यं वदन्ति चेतनाः ।
अहोरात्रं न विश्रान्ताः मानवान् धारयन्ति ते ॥
(सर्वे सोत्साहं पठन्ति, आश्चर्यं च कुर्वन्ति)
४८। पावनी - किन्तु श्रीमन्, कृतकबुद्धि-सकाशात् समाजे महत् भयम् अपि अस्ति।
४९। अध्यापकः - सत्यं, भयस्य कारणमपि यथार्थम् अस्ति। अद्यत्वे कृतकबुद्धेः दुरुपयोगेन हि विभिन्नप्रकारकाः साइबर्-अपराधाः समाजेषु देशेषु च चलन्ति। किं भवन्तः 'डीप्-फेक्' इति समस्याविषये जानन्ति?
५०। आकाशः - गुरुवर ! तत् डीप्-फेक् इति किमस्ति ?
५१। अध्यापकः - डीप्-फेक् कृतकबुद्ध्या निर्मितं मिथ्याचित्रं, दृश्यं, ध्वनिः वा अस्ति। मिथ्यादृश्ये यत्र मुखं वाणी च मिथ्या प्रस्तूयते - उपहासाय, अनेकदा अपराधाय चापि।
५२। अथर्वः - अस्य निराकरणार्थम् उपायः कः ?
५३। अध्यापकः - कृतकबुद्धि-साक्षरता, अस्माकं नैतिकतापूरितं प्रशिक्षणं, सर्वकारेण नियन्त्रणम्, आत्मनियन्त्रणं चेति विविधाः उपायाः अस्माभिः करणीयाः ।
५४। भास्करः - अहो ! "कृतकबुद्धिः मित्रं भवेत्, न भवेत् स्वामी" इति वाक्यं मम मनः स्पृशति।
५५। वेदः - तथापि यदि कृतकबुद्धिः मनुष्यान् स्वस्ववृत्तेः निष्कासयति तर्हि कः तत्र रक्षणोपायः ?
५६। अध्यापकः - तथाविधः सङ्कटः नापतेत् इति भारतसर्वकारेण स्किल्-इण्डिया, डिजिटल्-इण्डिया, ई-स्किल्-इण्डिया, चेत्याद्याः अनेकाः योजनाः सञ्चाल्यन्ते। एताभिः योजनाभिः प्रशिक्षिताः युवानः नवीनवृत्तीः प्राप्तुम् अर्हन्ति । वस्तुतः कृतकबुद्धिः स्वतः कस्यापि वृत्तिं न हरति । अपि तु कृतकबुद्धिप्रशिक्षितः जनः कदाचित् अप्रशिक्षितस्य जनस्य पारम्परिकवृत्तिं हरेत्।
५७। यशिका - गुरुवर ! कृतकबुद्धि-द्वारा भविष्ये मानुषजीवनं कीदृशं भविष्यति ?
५८। अध्यापकः - यदि विवेकपूर्वकं प्रयुज्यते, तर्हि जीवनम् अधिकं सुगमं, सुरक्षितं श्रेयस्करं च भविष्यति । कृतकबुद्धिः एव मानवीयबुद्धिं कार्यक्षमतां च द्विगुणितां करिष्यति इति मम मतम्।
५९। श्रेया - भारतीय-कृतकबुद्धिप्रभाव-सम्मेलनम् - २०२६ इत्यत्रापि उक्तमेतम् उत्तमं कथनम् !
६०। अध्यापकः - 'कृतकबुद्धिः मानवबुद्धेः सहकरी' - इति वाक्यम् अस्माकं मनसि स्पष्टं स्यात् ।
६१। सर्वे - आम् ! वयं जागरूकाः नागरिकाः भवाम, सुरक्षितं जालप्रवेशं करवाम, अपि च डिजिटल-भारतं समृद्धं करवाम।
SECTION 4 — अन्वय
वाक्यम् १३:
मूल: यदा यन्त्राणि मनुष्यवत् चिन्तयन्ति, निर्णयं कुर्वन्ति, कार्यं च कुर्वन्ति, तदा तत्र कृतकबुद्धिः उपस्थिता अस्ति इति जानीमः ।
अन्वयः: यदा यन्त्राणि मनुष्यवत् चिन्तयन्ति, निर्णयं कुर्वन्ति, कार्यं च कुर्वन्ति, तदा तत्र कृतकबुद्धिः उपस्थिता अस्ति इति [वयम्] जानीमः।
(अन्वयः मूल वाक्य के समान है, केवल 'वयम्' अध्याहृत है)
वाक्यम् २४:
मूल: प्रौद्योगिकीविशारदाः यन्त्राधिगमः, गहनाधिगमः चेति विधिना एतानि यन्त्राणि प्रशिक्षयन्ति, अनुप्रयोगाय च सज्जीकुर्वन्ति ।
अन्वयः: प्रौद्योगिकीविशारदाः यन्त्राधिगमः, गहनाधिगमः च इति विधिना एतानि यन्त्राणि प्रशिक्षयन्ति, अनुप्रयोगाय च सज्जीकुर्वन्ति।
(अन्वयः मूल वाक्य के समान है)
वाक्यम् ४७ (श्लोकः):
मूल: विद्युत्प्रज्ञया यन्त्राणि नित्यं वदन्ति चेतनाः । अहोरात्रं न विश्रान्ताः मानवान् धारयन्ति ते ॥
अन्वयः: यन्त्राणि चेतनाः [इव] विद्युत्प्रज्ञया नित्यं वदन्ति। ते अहोरात्रं न विश्रान्ताः [सन्तः] मानवान् धारयन्ति।
विशेष: यहाँ 'चेतनाः' के साथ 'इव' और 'विश्रान्ताः' के साथ 'सन्तः' क्रिया को पूर्णता के लिए जोड़ा गया है। (Implied words added for grammatical completion).
EXAM TIP:CBSE में 'अन्वयं पूरयत' प्रश्न के लिए सही Subject → Object → Verb क्रम अनिवार्य है।पद्य (श्लोक) का अन्वय परीक्षा के लिए विशेष रूप से महत्त्वपूर्ण है।
SECTION 5 — शब्दार्थ
संस्कृत पद | हिंदी अर्थ | English Meaning |
कृतकबुद्धिः | कृत्रिम बुद्धिमत्ता | Artificial Intelligence (AI) |
सहकरी | सहयोगिनी / सहायिका | Helper / Assistant |
पटु-कारयानम् | स्मार्ट कार | Smart Car |
अचेतनयन्त्राणि | निर्जीव मशीनें | Lifeless machines |
अनुप्रयुक्ततन्त्रविशेषाः | सॉफ्टवेयर / ऍप्लिकेशन्स | Software applications |
प्रौद्योगिकीविशारदाः | तकनीकी विशेषज्ञ | Technology experts |
यन्त्राधिगमः | मशीन द्वारा सीखना | Machine Learning |
गहनाधिगमः | मशीनों का गहन अध्ययन | Deep Learning |
दत्तांशः (डेटासेट्) | डेटा / आँकड़े | Dataset / Data |
पूर्वग्रहः | पहले से स्थापित पक्षपात | Bias / Prejudice |
भूरिशः | बहुत अधिक मात्रा में | In abundance / Widely |
सान्निध्ये | निकटता में / साथ में | In the presence of |
प्रगाढम् | अत्यंत / गहराई से | Deeply |
प्रतिस्पर्धिनी | प्रतियोगिता करने वाली | Competitor |
रश्मिपरीक्षणविद्या | किरण विज्ञान (एक्स-रे आदि) | Radiology |
अपराधशमनाय | अपराध रोकने के लिए | For reducing crime |
विद्युत्प्रज्ञया | इलेक्ट्रॉनिक बुद्धि से | With electronic intelligence |
अहोरात्रम् | दिन और रात | Day and night |
मिथ्याचित्रम् | झूठी तस्वीर (डीपफेक) | Fake image / Deepfake |
नवीनवृत्तीः | नए रोजगार / नौकरियाँ | New jobs / professions |
SECTION 6 — हिंदी अनुवाद
१. आधुनिक विज्ञान के युग में जब मानव जीवन तेज़ी से बदल रहा है, तब कृत्रिम बुद्धिमत्ता (AI) एक प्रभावशाली साधन के रूप में उपस्थित है।
२. इसमें मशीनें मनुष्य की तरह सोचती हैं और निर्णय लेती हैं।
३. अहो! कृत्रिम बुद्धिमत्ता की शक्ति यहाँ देखने योग्य है।
४. इस पाठ में "कृत्रिम बुद्धिमत्ता मानव बुद्धि की सहायक है" इस विषय पर एक बातचीत प्रस्तुत की गई है।
५. जिसमें शिक्षक और छात्र मिलकर AI के स्वरूप, उसके उपयोग के क्षेत्रों, लाभों और सीमाओं (कमियों) पर चर्चा करते हैं।
६. (स्थान – विद्यालय की कक्षा। शिक्षक कक्षा में प्रवेश करते हैं।)
७. सभी छात्र - सुप्रभात, गुरु जी!
८. शिक्षक - सुप्रभात, प्रिय छात्रों!
९. यशिका - महोदय! आज मैंने एक बिना ड्राइवर वाली स्मार्ट-कार देखी। मैं हैरान रह गई। क्या यह संभव है?
१०. शिक्षक - बिल्कुल यशिका! यह कृत्रिम बुद्धिमत्ता (AI) के कारण संभव है।
११. कात्यायनी - महोदय! यह कृत्रिम बुद्धिमत्ता क्या है? आज हम इसके बारे में जानना चाहते हैं।
१२. शिक्षक - आजकल यह बहुत चर्चा का विषय है। क्या आप में से कोई AI के बारे में जानता है?
१३. श्रेया - आचार्य! मैं जानती हूँ। जब मशीनें मनुष्य की तरह सोचती हैं, निर्णय लेती हैं और काम करती हैं, तब हम मानते हैं कि वहाँ AI मौजूद है।
१४. शिक्षक - बहुत अच्छा! वैज्ञानिक मानते हैं कि जिसके द्वारा निर्जीव मशीनें मानव बुद्धि की तरह काम करती हैं, वह कृत्रिम बुद्धिमत्ता है।
१५. अथर्व - हाँ, चैट-जीपीटी नामक बातचीत करने वाला उपकरण भी AI से युक्त है।
१६. शिक्षक - सही कहा! चैट-जीपीटी, सिरी, एलेक्सा, गूगल मैप्स, जेमिनी, मेटा-एआई और परप्लेक्सिटी आदि एप्लीकेशन AI से ही युक्त हैं।
१७. यशिका - मैंने चैट-जीपीटी से अपने कई सवालों के सही जवाब प्राप्त किए हैं। यह AI के कारण ही संभव है।
१८. अथर्व - मेरी माता 'एलेक्सा' नामक मशीन का उपयोग करती हैं। यह गाना गाती है, लाइट जलाती है, रोज़मर्रा की बातचीत करती है और मौसम का हाल बताती है।
१९. पावनी - अरे! मेरी माता तो गूगल असिस्टेंट के साथ बातें करती हैं।
२०. शिक्षक - बहुत खूब! यह एक 'बुद्धिमान' मशीन प्रणाली है। क्या आप जानते हैं कि AI के कुछ प्रमुख प्रकार कितने हैं?
२१. अक्षत - वे प्रकार कौन-से हैं, मान्यवर!
२२. शिक्षक - वे हैं: संकीर्ण AI (जैसे GPT, गूगल मैप्स, यूट्यूब), सामान्य AI (मानव के समान बुद्धिमत्ता, जो अभी लक्ष्य है), और सुपर AI (मानव से भी अधिक बुद्धिमान, जो अभी कोरी कल्पना है)।
२३. आर्य - लेकिन आचार्य! हमारी बुद्धि तो ईश्वर ने मस्तिष्क में स्थापित की है, यह बुद्धि मशीन में कैसे डाली जाती है?
२४. शिक्षक - बहुत अच्छा प्रश्न है। तकनीक के विशेषज्ञ 'मशीन लर्निंग' और 'डीप लर्निंग' विधियों से इन मशीनों को ट्रेनिंग देते हैं और उपयोग के लिए तैयार करते हैं।
२५. यशिका - क्या मशीनों का भी कोई स्कूल (पाठशाला) होता है? (सब हँसते हैं)
२६. शिक्षक - इस मशीन की पाठशाला का नाम "डेटासेट" है! AI मशीन डेटा के माध्यम से ही सीखती है।
२७. श्रेया - लेकिन आचार्य! अगर उसे गलत डेटा दिया जाए, तो क्या AI भी गलती करेगा?
२८. शिक्षक - हाँ। जब ट्रेनिंग का डेटा पक्षपात से भरा (biased) होता है, तो उसके नतीजे भी पक्षपातपूर्ण होते हैं। इस दोष को 'पूर्वाग्रह' (Bias) कहा जाता है। AI अभी भी विकास के चरण में है।
२९. अथर्व - गुरुवर! यह बुद्धि किन-किन जगहों पर उपयोग की जाती है?
३०. शिक्षक - तुम्हारा प्रश्न बहुत महत्वपूर्ण है। शिक्षा, चिकित्सा, कृषि, अदालत, संचार, वित्त (बैंकिंग), कला, संगीत और मनोरंजन आदि क्षेत्रों में AI का बहुत अधिक उपयोग किया जा रहा है।
३१. यशिका - महोदय! AI शिक्षा में कैसे मदद करती है? क्या शिक्षकों की जगह AI हमें पढ़ाएगी? यह कैसे संभव है?
३२. शिक्षक - दीक्षा, स्वयं, 'AI for All', पीएम-ईविद्या, डाउट दूर करने वाले चैटबॉट और भाषा अनुवाद के उपकरणों में इसका इस्तेमाल होता है। ये AI पर आधारित उपकरण हैं। इनकी मदद से छात्र शिक्षक की अनुपस्थिति में भी खुद पढ़ाई कर सकते हैं।
३३. आकाश - हा धिक्कार! क्या इन कारणों से मानव शिक्षक बेकार (बेरोज़गार) हो जाएंगे?
३४. शिक्षक - नहीं नहीं! AI गुरु का मित्र (सहायक) है, गुरु का विकल्प (रिप्लेसमेंट) नहीं। शिक्षकों के साथ रहने से छात्रों के व्यक्तित्व का विकास होता है। शिक्षक किताबी ज्ञान के साथ मानवीय मूल्य भी सिखाते हैं। वे अनुशासन, परोपकार, करुणा और व्यावहारिक ज्ञान देते हैं। हमेशा याद रखें कि AI एक मशीन है, प्रेरणा तो इंसानों से ही मिलती है।
३५. वेद - मैंने किसी फिल्म में देखा था कि मशीनें इंसानों से दुनिया पर कब्ज़ा कर लेंगी।
३६. यशिका - और आचार्य! क्या AI मनुष्य की जगह छीन सकती है?
३७. शिक्षक - समाज में यह चिंता बहुत गहरी हो रही है, लेकिन यहाँ यह समझना चाहिए कि AI एक सहायिका है, इंसान की प्रतिद्वंद्वी (दुश्मन) नहीं।
३८. आर्य - महोदय! क्या AI का उपयोग चिकित्सा (मेडिकल) में भी होता है?
३९. शिक्षक - हाँ! रोबोटिक सर्जरी, बीमारी की पहले से भविष्यवाणी, रेडियोलॉजी (एक्स-रे), चैट-एआई और दवाओं की देखभाल जैसे चिकित्सा उपकरण AI पर आधारित हैं।
४०. अक्षत - क्या यह खेती में भी इस्तेमाल होता है?
४१. शिक्षक - बिल्कुल! कृषि में ड्रोन से बीज बोना, कीड़ों की निगरानी करना और मिट्टी की क्षमता की जाँच भी मशीनों से होती है।
४२. अथर्व - गुरुदेव! अपराध रोकने में AI कैसे मदद करती है?
४३. शिक्षक - चेहरा पहचानने वाली तकनीक (Facial Recognition) और पूर्वानुमानित पुलिसिंग (Predictive Policing) जैसी योजनाओं में AI का प्रयोग होता है।
४४. यशिका - क्या AI कविता भी लिख सकती है?
४५. शिक्षक - इस पर आप लोग क्या सोचते हैं?
४६. वेद - मुझे चैट-जीपीटी से यह श्लोक मिला है:
४७. "मशीनें अपनी इलेक्ट्रॉनिक बुद्धि से हमेशा चेतन प्राणियों (इंसानों) की तरह बोलती हैं। वे बिना आराम किए दिन-रात इंसानों का सहयोग करती हैं।"
(सभी उत्साह से पढ़ते हैं और आश्चर्य करते हैं)
४८. पावनी - लेकिन श्रीमान्, AI के कारण समाज में एक बड़ा डर भी है।
४९. शिक्षक - सच है, डर का कारण भी असली है। आजकल AI के गलत इस्तेमाल से समाज और देशों में कई तरह के साइबर अपराध चल रहे हैं। क्या आप 'डीप-फेक' (Deepfake) की समस्या के बारे में जानते हैं?
५०. आकाश - गुरुवर! यह डीप-फेक क्या है?
५१. शिक्षक - डीप-फेक AI द्वारा बनाया गया एक झूठा चित्र, वीडियो या आवाज़ है। ऐसे झूठे वीडियो में चेहरा और आवाज़ नकली होती है, जिसका इस्तेमाल मज़ाक उड़ाने और कई बार अपराध करने के लिए भी किया जाता है।
५२. अथर्व - इसे रोकने का क्या उपाय है?
५३. शिक्षक - AI के बारे में साक्षरता, हमारी नैतिकता से भरी ट्रेनिंग, सरकार का नियंत्रण और खुद पर काबू रखना—हमें ये सभी उपाय करने चाहिए।
५४. भास्कर - अहो! "AI को मित्र होना चाहिए, मालिक नहीं" यह बात मेरे मन को छू गई।
५५. वेद - फिर भी अगर AI इंसानों को उनकी नौकरियों से निकाल दे, तो उससे बचने का क्या उपाय है?
५६. शिक्षक - ऐसा संकट न आए, इसके लिए भारत सरकार स्किल-इंडिया, डिजिटल-इंडिया, ई-स्किल-इंडिया जैसी कई योजनाएँ चला रही है। इन योजनाओं से ट्रेनिंग पाए युवा नई नौकरियाँ पा सकते हैं। असल में, AI खुद किसी की नौकरी नहीं छीनती। बल्कि, AI की ट्रेनिंग पाया हुआ व्यक्ति किसी बिना ट्रेनिंग वाले व्यक्ति की पुरानी नौकरी छीन सकता है।
५७. यशिका - गुरुवर! AI के कारण भविष्य में इंसान का जीवन कैसा होगा?
५८. शिक्षक - अगर इसका समझदारी से इस्तेमाल किया जाए, तो जीवन और भी आसान, सुरक्षित और कल्याणकारी होगा। मेरा मानना है कि AI इंसानी बुद्धि और काम करने की क्षमता को दोगुना कर देगी।
५९. श्रेया - इंडिया ए.आई. इम्पैक्ट समिट - 2026 में भी यही बेहतरीन बात कही गई थी!
६०. शिक्षक - 'कृत्रिम बुद्धिमत्ता मानव बुद्धि की सहायक है' - यह बात हमारे मन में स्पष्ट होनी चाहिए।
६१. सभी - हाँ! हम जागरूक नागरिक बनेंगे, इंटरनेट का सुरक्षित इस्तेमाल करेंगे और डिजिटल इंडिया को समृद्ध बनाएंगे।
SECTION 7 — English Translation
In the modern scientific age, when human life is changing rapidly, Artificial Intelligence (AI) has emerged as an effective tool.
Here, machines think and make decisions like humans.
Wow! The power of Artificial Intelligence is truly worth observing here.
In this chapter, a conversation titled "AI is a helper to Human Intelligence" is presented.
In it, the teacher and students discuss the nature of AI, its fields of application, its benefits, and its limitations.
(Location: School classroom. The teacher enters the class.)
All students - Good morning, respected sir!
Teacher - Good morning, dear students!
Yashika - Sir! Today I saw a smart car without a driver. I was amazed. Is this possible?
Teacher - Absolutely, Yashika! This is possible because of Artificial Intelligence.
Katyayani - Sir! What is this Artificial Intelligence? We want to know about it today.
Teacher - It is a highly discussed topic nowadays. Does anyone among you know about AI?
Shreya - Teacher! I know. When machines think, make decisions, and work like humans, we know that AI is present there.
Teacher - Excellent! Scientists believe that the technology through which lifeless machines work like human intelligence is AI.
Atharva - Yes, the conversational tool called Chat-GPT is also equipped with AI.
Teacher - Well said! Chat-GPT, Siri, Alexa, Google Maps, Gemini, Meta AI, and Perplexity are some of the software applications equipped with AI.
Yashika - I have received satisfactory answers to many questions using Chat-GPT. This is possible only because of AI.
Atharva - My mother uses a device called 'Alexa'. It sings songs, turns on the lights, engages in daily conversation, and gives weather updates.
Pavani - Oh! My mother talks to Google Assistant.
Teacher - Great! This is an 'intelligent' machine system. Do you know how many main types of AI there are?
Akshat - What are those types, sir?
Teacher - They are: Narrow AI (like GPT, Google Maps, YouTube), General AI (human-level intelligence, which is the current goal), and Super AI (intelligence greater than humans – which is still hypothetical).
Arya - But sir! Our intelligence was placed in our brains by God. How is this intelligence placed in a machine?
Teacher - Good question. Technology experts train these machines using methods like 'Machine Learning' and 'Deep Learning' and prepare them for use.
Yashika - Do machines also have a school? (Everyone laughs)
Teacher - The name of this machine school is "Dataset"! An AI machine learns through data.
Teacher - Yes. When the training data is biased, the conclusions also become biased. This flaw is called 'Bias'. AI is still in its developmental phase.
Atharva - Sir! In which places is this intelligence used?
Teacher - Your question is very important. AI is widely used in education, medicine, agriculture, courts, communication, finance, arts, music, and entertainment.
Yashika - Sir! How does AI help in education? Will AI replace teachers and teach us? How is that possible?
Teacher - DIKSHA, SWAYAM, 'AI for All', PM-eVidya, doubt-clearing chatbots, and language translation tools use it. These are AI-based tools. With their help, students can study on their own even in the absence of a teacher.
Akash - Alas! Will human teachers become useless because of these?
Teacher - No, no! AI is a teacher's friend, not a teacher's replacement. Students' personalities develop in the presence of teachers. Along with bookish knowledge, teachers also instil human values in students. They teach discipline, benevolence, compassion, and practical knowledge. Always remember that AI is a tool; inspiration only comes from humans.
Veda - I saw in some movie that machines will take over the world from humans.
Yashika - And sir! Can AI take the place of humans?
Teacher - This worry is deepening in society, but it must be understood here that AI is an assistant, not a competitor to humans.
Arya - Sir! Is AI used in medicine too?
Teacher - Yes! Robotic surgery, early disease prediction, radiology, chat AI, and medical care are some of the medical tools based on it.
Akshat - Is it used in agriculture too?
Teacher - Certainly! In agriculture too, sowing seeds via drones, monitoring insects, and testing soil capacity are done by machines.
Atharva - Sir! How does AI help in reducing crime?
Teacher - AI is used in systems like Facial Recognition and Predictive Policing.
Yashika - Is AI capable of writing poetry too?
Teacher - What do you guys think about this?
Veda - I got this verse from Chat-GPT:
"Using electronic intelligence, machines constantly speak like conscious beings. Working day and night without rest, they support humans."
(Everyone reads enthusiastically and is amazed)
Pavani - But sir, there is also a great fear in society due to AI.
Teacher - True, the cause of the fear is also real. Nowadays, due to the misuse of AI, various types of cybercrimes are happening in societies and countries. Do you know about the 'Deepfake' issue?
Akash - Sir! What is this Deepfake?
Teacher - A Deepfake is a fake image, video, or audio created by AI. In a fake video, the face and voice are presented falsely - for mockery, and often for committing crimes.
Atharva - What is the solution to stop this?
Teacher - AI literacy, value-based training for us, government regulation, and self-control are the various measures we must take.
Bhaskar - Wow! The sentence "AI should be a friend, not a master" touches my heart.
Veda - Still, if AI removes humans from their jobs, what is the safeguard against that?
Teacher - To prevent such a crisis, the Indian government is running many schemes like Skill India, Digital India, and e-Skill India. Youth trained through these schemes can get new jobs. In reality, AI itself doesn't steal anyone's job. Rather, an AI-trained person might take the traditional job of an untrained person.
Yashika - Sir! What will human life be like in the future because of AI?
Teacher - If used wisely, life will become much easier, safer, and better. I believe that AI will double human intelligence and work efficiency.
Shreya - This excellent statement was also made at the India AI Impact Summit - 2026!
Teacher - The sentence 'AI is a helper to human intelligence' should be clear in our minds.
Everyone - Yes! We will become aware citizens, ensure safe internet browsing, and make Digital India prosperous.
SECTION 8 — सारांश
HINDI:
प्रस्तुत पाठ "एषा सा कृतकबुद्धिः मानवबुद्धेः सहकरी" आधुनिक विज्ञान के सबसे प्रासंगिक विषय 'कृत्रिम बुद्धिमत्ता' (AI) पर एक संवादात्मक लेख है। शिक्षक और छात्रों के बीच हुई बातचीत के माध्यम से यह स्पष्ट किया गया है कि AI मशीनें डेटासेट और मशीन लर्निंग के माध्यम से मनुष्यों की तरह सोचना और निर्णय लेना सीखती हैं। शिक्षा (दीक्षा, स्वयं पोर्टल), चिकित्सा (रोबोटिक सर्जरी), कृषि (ड्रोन) और सुरक्षा जैसे क्षेत्रों में AI का व्यापक उपयोग हो रहा है। हालाँकि, छात्रों ने AI से जुड़े खतरों—जैसे शिक्षकों या इंसानों की नौकरियाँ छिनना और 'डीप-फेक' (Deepfake) जैसे साइबर अपराधों—पर भी चिंता व्यक्त की। शिक्षक ने स्पष्ट किया कि AI केवल एक सहायक (मित्र) है, मनुष्य या शिक्षक का विकल्प नहीं, क्योंकि मानवीय मूल्य और प्रेरणा केवल इंसान ही दे सकते हैं। यदि AI का उपयोग नैतिकता और विवेक के साथ किया जाए, तो यह मानव की कार्यक्षमता को दोगुना कर भविष्य को और बेहतर बनाएगा।
ENGLISH:
The chapter "Esha Sa Kritakabuddhih Manavabuddheh Sahakari" is an engaging dialogue on the highly relevant modern topic of Artificial Intelligence (AI). Through a classroom conversation, the teacher explains that AI systems learn to think and make decisions like humans using datasets and machine learning. AI has vast applications across education (chatbots, SWAYAM), medicine (robotic surgery), agriculture (drones), and security. The students also voice concerns regarding AI replacing human jobs, displacing teachers, and fueling cybercrimes like 'Deepfakes'. The teacher clarifies that AI is merely an assistant (a friend) and not a replacement for humans, as machines cannot impart human values, discipline, or inspiration. The lesson concludes that if AI is used ethically and prudently, it will double human efficiency and make our future significantly safer and more prosperous.
SECTION 9 — केंद्रीय भाव एवं मूल्य
9A. विषय-वस्तु सारणी
विषय | पाठ में स्पष्टीकरण |
मुख्य विषय | कृत्रिम बुद्धिमत्ता (AI) का स्वरूप, उपयोग और उसकी सीमाएँ। (Nature, applications, and limitations of Artificial Intelligence.) |
समस्या एवं समाधान | डीप-फेक (Deepfake) और बेरोजगारी का डर। समाधान: डिजिटल साक्षरता और नई स्किल्स (Skill India) सीखना। (Fears of Deepfakes and job loss. Solution: Digital literacy and upskilling.) |
निष्कर्ष | AI मनुष्य की सहायक (मित्र) है, मालिक (स्वामी) या शिक्षक का विकल्प नहीं। (AI is an assistant/friend to humans, not a master or a replacement for teachers.) |
9B. मानवीय एवं सांस्कृतिक मूल्य
वैज्ञानिकदृष्टिकोणः (वैज्ञानिक सोच / Scientific Temper)
प्रौद्योगिकीविशारदाः यन्त्राधिगमः, गहनाधिगमः चेति विधिना एतानि यन्त्राणि प्रशिक्षयन्ति...
यह पाठ छात्रों में तकनीक को समझने और उसे जीवन में सकारात्मक रूप से अपनाने का वैज्ञानिक दृष्टिकोण विकसित करता है।
(Develops a logical and scientific approach towards adopting new technologies.)
विवेकः / सदुपयोगः (समझदारी से उपयोग / Prudent Use of Tech)
यदि विवेकपूर्वकं प्रयुज्यते, तर्हि जीवनम् अधिकं सुगमं, सुरक्षितं श्रेयस्करं च भविष्यति ।
यह मूल्य सिखाता है कि तकनीक भस्मासुर न बने, इसके लिए उसका उपयोग हमेशा नैतिकता और समझदारी से ही होना चाहिए।
(Teaches the importance of using technology ethically and wisely for human welfare.)
सतर्कता / जागरूकता (जागरूकता / Cyber Vigilance)
कृतकबुद्धि-साक्षरता, अस्माकं नैतिकतापूरितं प्रशिक्षणं, सर्वकारेण नियन्त्रणम्...
'डीप-फेक' जैसे अपराधों से बचने के लिए छात्रों में डिजिटल सुरक्षा और साइबर अपराधों के प्रति सतर्कता का मूल्य स्थापित किया गया है।
(Instills awareness and vigilance against cybercrimes like Deepfakes.)
EXAM TIP:मूल्यपरक प्रश्न 2-4 अंकों के लिए नियमित आते हैं।Always name the value in Sanskrit first (e.g., वैज्ञानिकदृष्टिकोणः).
SECTION 10 — मुख्य विचार-बिंदु (Key Arguments)
चूँकि यह पाठ एक संवादात्मक लेख (एकांकी) है, अतः इसमें AI के संबंध में प्रस्तुत किए गए प्रमुख तर्कों (Key Arguments) को समझना आवश्यक है:
१. कृतकबुद्धेः उपयोगिता (Utility of AI)
Sanskrit: शिक्षायां, चिकित्सायां, कृषि-क्षेत्रे, न्यायालये च कृतकबुद्धिः भूरिशः उपयुज्यते।
Hindi: AI का उपयोग शिक्षा में (चैटबॉट, अनुवाद), चिकित्सा में (रोबोटिक सर्जरी, एक्स-रे), कृषि में (ड्रोन से बीज बोना) और सुरक्षा में (चेहरा पहचानना) बहुत अधिक किया जा रहा है।
English: AI has extensive practical applications across education, healthcare, agriculture, and law enforcement.
२. मानवीय-शिक्षकस्य अनिवार्यता (Indispensability of Human Teachers)
Sanskrit: कृतकबुद्धिः गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति। शिक्षकाः मानवीयमूल्यबोधं जनयन्ति।
Hindi: AI शिक्षक का मित्र हो सकता है, लेकिन विकल्प नहीं। क्योंकि मशीनें जानकारी दे सकती हैं, लेकिन अनुशासन, करुणा और मानवीय मूल्य केवल एक मानव शिक्षक ही सिखा सकता है।
English: AI is an educational tool, not a teacher's replacement. Only human teachers can impart moral values, empathy, and discipline.
३. डीप्-फेक् समस्या तस्याः समाधानं च (The Deepfake Threat and Solutions)
Sanskrit: डीप्-फेक् कृतकबुद्ध्या निर्मितं मिथ्याचित्रं, दृश्यं वा अस्ति... अस्य निराकरणार्थं कृतकबुद्धि-साक्षरता आवश्यकी।
Hindi: डीप-फेक AI द्वारा बनाया गया नकली वीडियो या चित्र है जिससे साइबर अपराध होते हैं। इससे बचने के लिए डिजिटल साक्षरता और सरकारी नियंत्रण आवश्यक है।
English: Deepfakes are AI-generated fake media used for cybercrimes. Combating this requires AI literacy and government regulation.
४. वृत्तिभयम् (Fear of Job Loss)
Sanskrit: कृतकबुद्धिः स्वतः कस्यापि वृत्तिं न हरति। अपि तु कृतकबुद्धिप्रशिक्षितः जनः अप्रशिक्षितस्य जनस्य वृत्तिं हरेत्।
Hindi: AI सीधे तौर पर किसी की नौकरी नहीं छीनती, बल्कि जिस इंसान को AI चलानी आती है, वह उस इंसान की नौकरी छीन सकता है जिसे AI नहीं आती। इसलिए युवाओं को नई स्किल्स सीखनी चाहिए।
English: AI doesn't steal jobs; rather, an individual trained in AI might replace an untrained individual. Continuous upskilling is the solution.
SECTION 11 — गद्यांश आधारित प्रश्न
गद्यांशः १
अध्यापकः - साधु ! एषा काचित् 'बुद्धिमती' यन्त्रप्रणाली अस्ति। किं यूयं जानीथ कृतकबुद्धेः कतिपयाः प्रमुखाः प्रकाराः सन्ति ?
अक्षतः - के ते प्रकाराः मान्यवर !
अध्यापकः - ते सन्ति:
• सङ्कुचितकृतकबुद्धिः – जीपीटी, गूगल-मानचित्रं, यू-ट्यूब् ।
• सामान्यकृतकबुद्धिः - मानवसमाना बुद्धिमत्ता (एतत् लक्ष्यं भवति)।
• अत्युत्कृष्टकृतकबुद्धिः - मानवात् अपि अधिका बुद्धिमती – एषा काल्पनिकी अस्ति।
आर्यः - किन्तु आचार्य ! अस्माकं बुद्धिस्तु ईश्वरेण मस्तिष्के स्थापिता अस्ति, कथम् एषा बुद्धिः यन्त्रे स्थाप्यते ?
अध्यापकः - उत्तमः प्रश्नः । प्रौद्योगिकीविशारदाः यन्त्राधिगमः, गहनाधिगमः चेति विधिना एतानि यन्त्राणि प्रशिक्षयन्ति, अनुप्रयोगाय च सज्जीकुर्वन्ति ।
प्र.(i) — अर्थबोध (1 mark):
जीपीटी (GPT) कस्याः कृतकबुद्धेः उदाहरणम् अस्ति?
(क) सामान्यकृतकबुद्धेः (ख) अत्युत्कृष्टकृतकबुद्धेः
(ग) सङ्कुचितकृतकबुद्धेः (घ) मानवीयबुद्धेः
उत्तरम्: (ग)
हिंदी: गद्यांश में स्पष्ट लिखा है कि जीपीटी 'सङ्कुचितकृतकबुद्धिः' (Narrow AI) का उदाहरण है।
English: As per the text, GPT is an example of Sankuchita Kritakabuddhi (Narrow AI).
प्र.(ii) — अन्वय पूर्तिः (1 mark):
मञ्जूषातः पदं चित्वा अन्वयं पूरयत —
[ प्रशिक्षयन्ति / प्रौद्योगिकीविशारदाः / मस्तिष्के ]
_______ यन्त्राधिगमः, गहनाधिगमः चेति विधिना एतानि यन्त्राणि प्रशिक्षयन्ति।
उत्तरम्: प्रौद्योगिकीविशारदाः
हिंदी: 'तकनीकी विशेषज्ञ' (प्रौद्योगिकीविशारदाः) मशीनों को प्रशिक्षित करते हैं।
English: 'Technology experts' train these machines using learning methods.
प्र.(iii) — शब्दार्थ (1 mark):
'यन्त्राधिगमः' इति पदस्य अर्थः अस्ति —
(क) यन्त्रस्य विनाशः (ख) यन्त्रद्वारा शिक्षणम् (Machine Learning)
(ग) यन्त्रस्य निर्माणम् (घ) यन्त्रस्य गतिः
उत्तरम्: (ख)
हिंदी: अधिगम का अर्थ 'सीखना' होता है, अतः यन्त्राधिगम का अर्थ Machine Learning है।
English: Yantradhigamah refers to Machine Learning.
प्र.(iv) — प्रश्ननिर्माणम् (1 mark):
अधोलिखितवाक्ये रेखाङ्कितपदम् आश्रित्य प्रश्नं रचयत —
अस्माकं बुद्धिस्तु ईश्वरेण मस्तिष्के स्थापिता अस्ति।
उत्तरम्: अस्माकं बुद्धिस्तु केन मस्तिष्के स्थापिता अस्ति?
हिंदी: 'ईश्वरेण' तृतीया विभक्ति एकवचन है (किसके द्वारा?), अतः 'केन' का प्रयोग होगा।
English: 'Iishvarena' is instrumental singular, so 'Kena' (by whom) is used.
गद्यांशः २
यशिका - महोदय ! कृतकबुद्धिः कथं शिक्षायां साहाय्यं करोति ? किं शिक्षकस्य स्थाने कृतकबुद्धिः अस्मान् पाठयिष्यति ? एतत् कथं सम्भवति ?
अध्यापकः - दीक्षा, स्वयम्, सर्वेषां कृते कृतकबुद्धिः, पी.एम्.-ईविद्या, संशयनिराकरणार्थं चैट्बोट्, भाषानुवादोपकरणानि च यत्र प्रयुज्यन्ते। एतानि कृतकबुद्ध्याधारितानि उपकरणानि सन्ति । एतेषां साहाय्येन छात्राः शिक्षकाणाम् अनुपस्थितौ अपि स्वयम् अध्येतुं शक्नुवन्ति ।
आकाशः - हा धिक् ! एतेषां कारणेन मानवशिक्षकः किं प्रयोजनरहितः भविष्यति ?
अध्यापकः - न न ! कृतकबुद्धिः गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति। शिक्षकाणां सान्निध्ये छात्रेषु व्यक्तित्वविकासः भवति। शिक्षकाः पुस्तकीयज्ञानेन सह छात्रेषु मानवीयमूल्यबोधम् अपि जनयन्ति । ते अनुशासनं, परोपकारं, करुणां, तथैव व्यवहारज्ञानं च शिक्षयन्ति।
प्र.(i) — अर्थबोध (1 mark):
छात्रेषु मानवीयमूल्यबोधं के जनयन्ति?
(क) यन्त्राणि (ख) शिक्षकाः
(ग) सङ्गणकानि (घ) पुस्तकानि
उत्तरम्: (ख)
हिंदी: गद्यांश के अनुसार 'शिक्षक' ही छात्रों में मानवीय मूल्यों का विकास करते हैं, मशीनें नहीं।
English: According to the text, 'teachers' instill human values in students.
प्र.(ii) — अन्वय पूर्तिः (1 mark):
मञ्जूषातः पदं चित्वा अन्वयं पूरयत —
[ गुरुविकल्पः / स्वयम् / व्यक्तित्वविकासः ]
एतेषां साहाय्येन छात्राः शिक्षकाणाम् अनुपस्थितौ अपि _______ अध्येतुं शक्नुवन्ति।
उत्तरम्: स्वयम्
हिंदी: AI की मदद से छात्र शिक्षकों की अनुपस्थिति में 'खुद' (स्वयम्) पढ़ाई कर सकते हैं।
English: With their help, students can study 'on their own' (svayam).
प्र.(iii) — शब्दार्थ (1 mark):
'सान्निध्ये' इति पदस्य अर्थः अस्ति —
(क) समीपे / सङ्गतौ (ख) दूरे
(ग) अज्ञाने (घ) विरोधे
उत्तरम्: (क)
हिंदी: सान्निध्य का अर्थ है 'समीप' या 'संगति में' (presence/company)।
English: Sannidhye means in the proximity or presence of someone.
प्र.(iv) — प्रश्ननिर्माणम् (1 mark):
अधोलिखितवाक्ये रेखाङ्कितपदम् आश्रित्य प्रश्नं रचयत —
कृतकबुद्धिः गुरुमित्रम् अस्ति।
उत्तरम्: कृतकबुद्धिः किम् अस्ति?
हिंदी: 'गुरुमित्रम्' नपुंसकलिंग शब्द है (क्या है?), अतः 'किम्' का प्रयोग होगा।
English: 'Gurumitram' is a neuter object, so 'Kim' is used to form the question.
SECTION 12 — लघु उत्तरीय प्रश्न (3 Marks)
प्र१. कृतकबुद्धेः कति प्रमुखाः प्रकाराः सन्ति?
मूल बिंदु 1 (VP1): सङ्कुचितकृतकबुद्धिः (Narrow AI)
मूल बिंदु 2 (VP2): सामान्य-अत्युत्कृष्ट-कृतकबुद्धिः च (General and Super AI)
उत्तरम् (Sanskrit):
कृतकबुद्धेः त्रयः प्रमुखाः प्रकाराः सन्ति। ते सन्ति—सङ्कुचितकृतकबुद्धिः (यथा जीपीटी, गूगल-मानचित्रम्), सामान्यकृतकबुद्धिः (मानवसमाना बुद्धिमत्ता) तथा अत्युत्कृष्टकृतकबुद्धिः (मानवात् अपि अधिका बुद्धिमती)।
हिंदी अनुवाद:
कृत्रिम बुद्धिमत्ता (AI) के तीन प्रमुख प्रकार हैं। वे हैं— संकीर्ण AI (जैसे GPT, गूगल मैप्स), सामान्य AI (मानव के समान बुद्धिमत्ता) और सुपर AI (मानव से भी अधिक बुद्धिमान)।
English:
There are three main types of Artificial Intelligence. They are: Narrow AI (e.g., GPT, Google Maps), General AI (human-level intelligence), and Super AI (intelligence superior to humans).
प्र२. डीप्-फेक् (Deepfake) किम् अस्ति, तस्य च कः दुरुपयोगः भवति?
मूल बिंदु 1 (VP1): कृतकबुद्ध्या निर्मितं मिथ्याचित्रम् (AI-generated fake media)
मूल बिंदु 2 (VP2): उपहासाय अपराधाय च प्रयोगः (Used for mockery and crimes)
उत्तरम् (Sanskrit):
डीप्-फेक् कृतकबुद्ध्या निर्मितं मिथ्याचित्रं, मिथ्यादृश्यं, मिथ्याध्वनिः वा अस्ति। अद्यत्वे समाजे अस्य दुरुपयोगः अतीव वर्धते। अस्य प्रयोगेण मानवानां मिथ्या-उपहासः क्रियते तथा च विभिन्नप्रकारकाः साइबर्-अपराधाः अपि क्रियन्ते।
हिंदी अनुवाद:
डीप-फेक AI द्वारा बनाया गया एक नकली चित्र, नकली वीडियो या नकली आवाज़ है। आजकल समाज में इसका दुरुपयोग बहुत बढ़ रहा है। इसके प्रयोग से लोगों का झूठा मज़ाक उड़ाया जाता है और कई प्रकार के साइबर अपराध किए जाते हैं।
English:
Deepfake is a fake image, video, or audio created by AI. Nowadays, its misuse is highly increasing in society. It is used to falsely mock individuals and to commit various types of cybercrimes.
प्र३. शिक्षकस्य स्थाने कृतकबुद्धिः भवितुं शक्नोति वा? किमर्थम्?
मूल बिंदु 1 (VP1): कृतकबुद्धिः गुरुमित्रम्, न तु गुरुविकल्पः (AI is a friend, not a replacement)
मूल बिंदु 2 (VP2): मानवीयमूल्यबोधस्य अभावः (Lack of human values in AI)
उत्तरम् (Sanskrit):
न, शिक्षकस्य स्थाने कृतकबुद्धिः कदापि भवितुं न शक्नोति यतोहि सा गुरुमित्रम् अस्ति, गुरुविकल्पः नास्ति। यन्त्राणि केवलं सूचनां दातुं शक्नुवन्ति, किन्तु अनुशासनं, परोपकारं, करुणां मानवीयमूल्यानि च केवलं मानवशिक्षकः एव शिक्षयितुं शक्नोति।
हिंदी अनुवाद:
नहीं, शिक्षक की जगह कृत्रिम बुद्धिमत्ता कभी नहीं ले सकती क्योंकि वह शिक्षक की मित्र (सहायक) है, शिक्षक का विकल्प नहीं। मशीनें केवल जानकारी दे सकती हैं, लेकिन अनुशासन, परोपकार, करुणा और मानवीय मूल्य केवल एक मानव शिक्षक ही सिखा सकता है।
English:
No, AI can never take the place of a teacher because it is a teacher's friend, not a replacement. Machines can only provide information, but discipline, benevolence, compassion, and human values can only be taught by a human teacher.
प्र४. पूर्वग्रहः (Bias) इति दोषः कृतकबुद्धौ कथं जायते?
मूल बिंदु 1 (VP1): अशुद्धदत्तांशस्य प्रयोगः (Use of inaccurate/biased data)
मूल बिंदु 2 (VP2): पक्षपातयुक्तः निष्कर्षः (Biased conclusions)
उत्तरम् (Sanskrit):
यन्त्राणां पाठशाला "डेटासेट्" (दत्तांशः) भवति। यदा यन्त्रेभ्यः दीयमानः प्रशिक्षणदत्तांशः पक्षपातयुक्तः अशुद्धः वा भवति, तदा कृतकबुद्धेः निष्कर्षाः अपि पक्षपातयुक्ताः भवन्ति। एषः दोषः एव 'पूर्वग्रहः' इति कथ्यते।
हिंदी अनुवाद:
मशीनों की पाठशाला "डेटासेट" होती है। जब मशीनों को दिया जाने वाला ट्रेनिंग डेटा पक्षपातपूर्ण या गलत होता है, तो AI के निष्कर्ष (नतीजे) भी पक्षपातपूर्ण होते हैं। इसी दोष को 'पूर्वाग्रह' (Bias) कहा जाता है।
English:
The school for machines is a "Dataset". When the training data provided to the machines is biased or inaccurate, the conclusions drawn by AI also become biased. This very flaw is termed as 'Bias'.
SECTION 13 — दीर्घ उत्तरीय प्रश्न (5 Marks)
प्र१. "कृतकबुद्धिः मानवबुद्धेः सहकरी, न तु स्वामिनी" - पाठस्य आधारेण एतत् कथनं सविस्तरं स्पष्टीकुरुत।
मूल बिंदु 1 (VP1): जीवनस्य सुगमता (Making life easier)
मूल बिंदु 2 (VP2): विभिन्नक्षेत्रेषु साहाय्यम् (Help in various fields)
मूल बिंदु 3 (VP3): मानवीय-प्रेरणायाः सर्वोच्चता (Supremacy of human inspiration)
मूल बिंदु 4 (VP4): वृत्ति-भयस्य निवारणम् (Dispelling job fears through upskilling)
उत्तरम् (Sanskrit):
अस्मिन् पाठे स्पष्टीकृतं यत् कृतकबुद्धिः (AI) मानवानां सहायिका अस्ति, न तु मनुष्यस्य प्रतिस्पर्धिनी स्वामिनी वा। अद्यत्वे शिक्षायां, चिकित्सायां, कृषिक्षेत्रे, सञ्चारे च कृतकबुद्धिः अतीव साहाय्यं करोति। यद्यपि समाजे भयम् अस्ति यत् एषा मानवानां वृत्तिं (नौकरीं) हरिष्यति, परन्तु वस्तुतः कृतकबुद्धिः स्वतः कस्यापि वृत्तिं न हरति। कृतकबुद्धिप्रशिक्षितः जनः एव अप्रशिक्षितस्य जनस्य वृत्तिं हरति। शिक्षकस्य स्थाने अपि एषा भवितुं न शक्नोति, यतोहि प्रेरणा मूल्यबोधः च मानवेभ्यः एव आगच्छति। यदि अस्याः प्रयोगः विवेकपूर्वकं भवति, तर्हि एषा मानवानां कार्यक्षमतां द्विगुणितां करिष्यति। अतः एषा सहकरी एव अस्ति।
हिंदी अनुवाद:
इस पाठ में स्पष्ट किया गया है कि कृत्रिम बुद्धिमत्ता (AI) मनुष्यों की सहायक है, न कि मनुष्य की दुश्मन या मालिक। आजकल शिक्षा, चिकित्सा, कृषि और संचार के क्षेत्र में AI बहुत मदद कर रही है। हालाँकि समाज में डर है कि यह इंसानों की नौकरियाँ छीन लेगी, लेकिन वास्तव में AI खुद किसी की नौकरी नहीं छीनती। AI की ट्रेनिंग लिया हुआ व्यक्ति ही बिना ट्रेनिंग वाले व्यक्ति की नौकरी छीनता है। यह शिक्षक की जगह भी नहीं ले सकती, क्योंकि प्रेरणा और नैतिक मूल्य केवल इंसानों से ही मिलते हैं। यदि इसका प्रयोग समझदारी से किया जाए, तो यह मनुष्य की काम करने की क्षमता को दोगुना कर देगी। अतः यह एक सहायक ही है।
English:
It is clarified in this chapter that Artificial Intelligence is an assistant to humans, not a competitor or a master. Nowadays, AI is immensely helpful in education, medicine, agriculture, and communication. Although there is a fear in society that it will take away human jobs, in reality, AI itself does not steal anyone's job. Only a person trained in AI takes the job of an untrained person. It cannot replace a teacher either, because inspiration and moral values only come from humans. If used wisely, it will double human work efficiency. Therefore, it is strictly a helper.
प्र२. चिकित्सा-कृषि-शिक्षा-क्षेत्रेषु कृतकबुद्धेः उपयोगान् सविस्तरं वर्णयत।
मूल बिंदु 1 (VP1): चिकित्सायाम् उपकरणानि (Applications in Medicine - Surgery, X-rays)
मूल बिंदु 2 (VP2): कृषिक्षेत्रे ड्रोन-प्रयोगः (Applications in Agriculture - Drones, seeds)
मूल बिंदु 3 (VP3): शिक्षायां डिजिटल-सुविधाः (Applications in Education - SWAYAM, chatbots)
मूल बिंदु 4 (VP4): स्वयम् अध्ययने साहाय्यम् (Facilitating self-study)
उत्तरम् (Sanskrit):
आधुनिकयुगे प्रमुखक्षेत्रेषु कृतकबुद्धेः उपयोगः द्रुतगत्या वर्धते।
१. चिकित्साक्षेत्रे: अत्र रोबोटिक्-सर्जरी, रोग-पूर्वज्ञानं, रश्मिपरीक्षणविद्या (Radiology), औषधशुश्रूषा चेत्यादीनि उपकरणानि कृतकबुद्ध्या चाल्यन्ते।
२. कृषिक्षेत्रे: अत्र ड्रोनमाध्यमेन बीज-वपनं, कीटनिरीक्षणं, भूमिक्षमता-परीक्षणं च यन्त्रैः भवति, येन कृषकाणां कार्यं सुगमं भवति।
३. शिक्षाक्षेत्रे: अत्र दीक्षा, स्वयम्-पोर्टल्, भाषानुवादोपकरणानि, संशयनिराकरणार्थं चैट्बोट् (Chatbot) च प्रयुज्यन्ते। एतेषां साहाय्येन छात्राः शिक्षकाणाम् अनुपस्थितौ अपि गृहे स्वयम् अध्येतुं शक्नुवन्ति।
अनेन प्रकारेण एतेषु क्षेत्रेषु कृतकबुद्धिः मानवहिताय अतीव उपयोगिनी सिद्धा भवति।
हिंदी अनुवाद:
आधुनिक युग में प्रमुख क्षेत्रों में AI का उपयोग तेज़ी से बढ़ रहा है:
चिकित्सा के क्षेत्र में: यहाँ रोबोटिक सर्जरी, बीमारियों की पहले से जानकारी, रेडियोलॉजी (एक्स-रे) और दवाओं की देखभाल जैसे उपकरण AI द्वारा चलाए जा रहे हैं।
कृषि के क्षेत्र में: यहाँ ड्रोन के माध्यम से बीज बोना, कीड़ों की निगरानी करना और मिट्टी की क्षमता की जाँच मशीनों से होती है, जिससे किसानों का काम आसान हो जाता है।
शिक्षा के क्षेत्र में: यहाँ दीक्षा, स्वयं पोर्टल, भाषा अनुवाद के उपकरण और डाउट दूर करने वाले चैटबॉट का उपयोग किया जाता है। इनकी मदद से छात्र शिक्षकों की अनुपस्थिति में भी घर पर खुद पढ़ाई कर सकते हैं।
इस प्रकार इन क्षेत्रों में AI मानव कल्याण के लिए बहुत उपयोगी साबित हो रही है।
English:
In the modern era, the use of AI is rapidly increasing in major fields:
In the Medical field: Tools like robotic surgery, early disease prediction, radiology, and medical care are operated using AI.
In the Agricultural field: Sowing seeds via drones, pest monitoring, and soil capacity testing are done by machines, making farmers' work easier.
In the Educational field: Platforms like DIKSHA, SWAYAM, language translation tools, and chatbots for clearing doubts are used. With their help, students can self-study at home even in the absence of teachers.
About BhashaLab
BhashaLab is a dynamic platform dedicated to the exploration and mastery of languages - operating both online and offline. Aligned with the National Education Policy (NEP) 2020 and the National Credit Framework (NCrF), we offer language education that emphasizes measurable learning outcomes and recognized, transferable credits.
We offer:
1. NEP alligned offline language courses for degree colleges - English, Sanskrit, Marathi and Hindi
2. NEP alligned offline language courses for schools - English, Sanskrit, Marathi and Hindi
3. Std VIII, IX and X - English and Sanskrit Curriculum Tuitions - All boards
4. International English Olympiad Tuitions - All classes
5. Basic and Advanced English Grammar - Offline and Online - Class 3 and above
6. English Communication Skills for working professionals, adults and students - Offline and Online
Contact: +91 86577 20901, +91 97021 12044
Mail: info@bhashalab.com
Website: www.bhashalab.com




Comments