top of page

    8. अन्नाद् आनन्दं प्रति - Annam Anandam Prati - Class 9 - Sharada

    • Jun 11
    • 25 min read

    Updated: Jun 15

    SECTION 1 — पाठ परिचय

    विवरण

    जानकारी

    पाठ का नाम:

    अन्नाद् आनन्दं प्रति (Annād Ānandaṃ Prati)

    विधा:

    गद्य पाठ — संवाद (उपनिषद्-कथा)

    स्रोत/ग्रंथ:

    तैत्तिरीयोपनिषद् (भृगुवल्ली)

    लेखक/कवि:

    सङ्कलितः (वैदिक साहित्य)

    पाठ्यपुस्तक:

    शारदा, NCERT कक्षा 9 संस्कृत, 2026-27

    परीक्षा खंड:

    खंड-घ (साहित्य) — 25-30 अंक


    SECTION 2 — लेखक/स्रोत परिचय


    SANSKRIT:

    अयं पाठः संस्कृतवाङ्मयस्य अमूल्यनिधेः 'तैत्तिरीयोपनिषदः' भृगुवल्लीतः सङ्कलितः अस्ति। उपनिषत्सु अनेके ज्ञानप्रदाः संवादाः सन्ति। अस्मिन् पाठे समग्रजीवनविकासाय पञ्चकोषाणां (अन्नमय-प्राणमय-मनोमय-विज्ञानमय-आनन्दमयकोषाणाम्) महत्त्वं पितापुत्रयोः (वरुण-भृगुमहोदययोः) संवादरूपेण वर्णितम् अस्ति। अस्य पाठस्य मुख्योद्देश्यं छात्रेषु आत्मविकासस्य, तपसः, अन्वेषणवृत्तेः च जागरणम् अस्ति।

    हिंदी अनुवाद:

    यह पाठ संस्कृत साहित्य की अमूल्य निधि 'तैत्तिरीयोपनिषद' की भृगुवल्ली से संकलित है। उपनिषदों में अनेक ज्ञानवर्धक संवाद हैं। इस पाठ में मनुष्य के संपूर्ण जीवन के विकास के लिए पंचकोषों (अन्न, प्राण, मन, विज्ञान और आनंद) के महत्व को पिता वरुण और पुत्र भृगु के संवाद के रूप में वर्णित किया गया है। इस पाठ का मुख्य उद्देश्य छात्रों में आत्म-विकास, तप (कड़ी मेहनत) और खोज की प्रवृत्ति को जगाना है।

    English:

    This chapter is compiled from the 'Bhrigu Valli' of the Taittiriya Upanishad, a priceless treasure of Sanskrit literature. The Upanishads contain many enlightening dialogues. This text describes the importance of the Panchakoshas (five sheaths: Food, Life-breath, Mind, Intellect, and Bliss) for holistic human development through a dialogue between father Varuna and son Bhrigu. The main objective is to awaken the spirit of self-development, penance (hard work), and inquiry among students.


    EXAM TIP:परीक्षा में स्रोत परिचय 5 अंकों के दीर्घ उत्तरीय प्रश्न में पूछा जाता है।(Focus on the source 'Taittiriya Upanishad' and the concept of 'Panchakosha' for holistic development.)

    SECTION 3 — मूल पाठ


    १। (एकदा ब्रह्मज्ञानाय तत्परः वरुणस्य पुत्रः भृगुः सविनयं पितरं प्रति गत्वा निवेदयति)

    २। भृगुः - अयि भोः पितः ! अभिवादयेऽहं सादरम्।

    ३। भगवन् ! ब्रह्मविषये मयि काचिद् जिज्ञासा वर्तते। किं तद् ब्रह्म येन सर्वं जगदिदं सञ्चाल्यते ? कृपया उपदिशतु।

    ४। वरुणः - पुत्र ! शुभं भूयात् । ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम्। यत्नः अभ्यासश्च क्रियेताम्। तपस्तप्यताम्। तपसैव ज्ञायते।

    ५। भृगुः - अस्तु तात !

    ६। (ततो भृगुः अनेकवर्षाणि तप आचरति । तपस्तप्त्वा पुनः पितरं निकषा गच्छति। पिता तं पृच्छति -)

    ७। वरुणः - अयि पुत्र ! त्वया किं ज्ञातम् ?

    ८। भृगुः - भोः पितः ! अन्नं वै ब्रह्म इति ।

    ९। वरुणः - कथम् अन्नं ब्रह्मरूपेण ज्ञातम् ?

    १०। भृगुः - हे पितः ! अन्नाद् एव प्राणिनः जायन्ते। अन्नेन एव प्राणिनः जीवन्ति । अन्नेनैव शरीरं बलं च वर्धेते। अतोऽन्नं ब्रह्म इति। उच्यते हि -

    ११। आहारात् सर्वभूतानि सम्भवन्ति महीपते। आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥

    १२। वरुणः - पुत्र ! त्वया सम्यग् अवबुद्धम्। अत उच्यते - अन्नं हि भूतानां ज्येष्ठम् । तस्मात् सर्वोषधम् इति उच्यते।

    १३। अतः कदापि अन्नं न निन्द्यात् । अन्नं सदा ईश्वरबुद्ध्या सेवताम्। कदापि अन्नं न परिहर्तव्यम्। प्रयत्नेन अन्नं बहु कुर्वीत।

    १४। सर्वदा सात्त्विकं हितकारकं च आहारं सेवताम्। परं च हे वत्स ! ब्रह्म ज्ञातुम् इतोऽपि यतताम्। तपः कुरुताम्।

    १५। भृगुः - अस्तु तात !

    १६। (पुनः भृगुः पर्वतं गत्वा बहूनि वर्षाणि तप आचरति । तपस्तप्त्वा पितुः समीपं गच्छति। आगतं पुत्रं दृष्ट्वा पिता पृच्छति)

    १७। वरुणः - हे पुत्र ! तपसा त्वया किं ज्ञातम् ?

    १८। भृगुः - हे पितः ! प्राणो वै ब्रह्म इति ।

    १९। वरुणः - हे भृगो ! कथं प्राणो ब्रह्म इति ज्ञातम् ?

    २०। भृगुः - हे भगवन् ! प्राणो हि भूतानाम् आयुः। प्राणे शरीरं प्रतिष्ठितम् । प्राण एव अस्माकं जीवनम् । प्राणेन विना शरीरं क्रियाशून्यं भवति।

    २१। अतः प्राणो ज्येष्ठः श्रेष्ठश्च । तस्मात् प्राणो वै ब्रह्म इति विज्ञातम् ।

    २२। वरुणः - पुत्र ! त्वया सत्यम् उदीरितम्। प्राणाद् एव इमानि भूतानि जायन्ते । प्राणेन जातानि जीवन्ति । प्राणशक्त्या एव शारीरिकक्रियाशक्तेर्विकासो भवति ।

    २३। अत एव प्राणः सर्वथा रक्षणीयः । तस्मात् प्राणविकासाय प्रतिदिनं प्राणायामः कर्तव्यः । उक्तं हि -

    २४। यावद् वायुः स्थितो देहे तावज्जीवनमुच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥

    २५। पुत्र ! भवान् तपसा प्राणतत्त्वस्य महत्त्वं ज्ञातवान् । किन्तु ब्रह्मज्ञानाय इतोऽपि कठोरं तपः कुरुताम्।

    २६। भृगुः - अस्तु पितः !

    २७। (सः पुनः बहुकालं यावद् वनं गत्वा तपश्चर्या कुरुते। तपस्तप्त्वा प्रसन्नवदनो वरुणं निकषा प्राप्नोति, वरुणः भृगुं पृच्छति -)

    २८। वरुणः - हे पुत्र ! त्वया तपसा किं ज्ञातम् ?

    २९। भृगुः - हे तात ! मया तपसा मनो वै ब्रह्म इति ज्ञातम् ।

    ३०। वरुणः - पुत्र ! कथं मनो वै ब्रह्म इति ?

    ३१। भृगुः - हे पितः ! मया तपसा एवम् अनुभूतं यद् अस्माकं मन एव सर्वकर्मणः प्रवर्तकम्। समस्तानि इन्द्रियाणि अपि मनसा सञ्चाल्यन्ते।

    ३२। मानवः मनसा एव सर्वं कार्यं सम्पादयति। मनसः सङ्कल्पाः, भावाः, विचाराश्च जायन्ते। अतो मनो वै ब्रह्म इति ।

    ३३। वरुणः - हे वत्स ! त्वया सम्यग् अनुभूतं यद् मन एव सर्वमिति। अत उपनिषदि उच्यते-

    ३४। कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्कीर्धीर्भीरित्येतत् सर्वं मन एव ।

    ३५। वत्स ! मानवः चिन्तनशक्त्या मननशक्त्या दृढसङ्कल्पशक्त्या च सर्वं लब्धुं शक्नोति। अतो मनसः शक्तिप्राप्तये मनः सदा सत्कर्मणा साधनीयम् ।

    ३६। शोकादिरहितम् उत्साहयुक्तं शान्तं च करणीयम्। आहारशुद्धिश्च करणीया। किञ्च हे पुत्र ! ब्रह्मज्ञानाय इतोऽपि प्रयतस्व ।

    ३७। भृगुः - अस्तु श्रीमन् !

    ३८। (पुनः भृगुः बहुकालं यावत् कठोरं तपः कुरुते, तपः कृत्वा पितुः समीपं प्राप्नोति, पिता तं पृच्छति)

    ३९। वरुणः - हे भृगो ! तपसा किम् अनुभूतम् ?

    ४०। भृगुः - हे पितः ! मया तपसा सूक्ष्मज्ञानेन च इदं ज्ञातं यद् विज्ञानं वै ब्रह्म इति ।

    ४१। वरुणः - पुत्र ! किं नाम विज्ञानम् ?

    ४२। भृगुः - हे भगवन् ! बुद्धितत्त्वमेव विज्ञानम् ।

    ४३। वरुणः - पुत्र ! कथं विज्ञानं (बुद्धितत्त्वम्) ब्रह्म इति विज्ञातम् ?

    ४४। भृगुः - हे पितः ! बुद्धितत्त्वं विना अस्माकं बोधशक्तेः, तर्कशक्तेः, विवेकशक्तेः, निर्णयशक्तेः, स्मृतिशक्तेश्च विकासो न भवति ।

    ४५। बुद्धिरेव सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति । समग्रज्ञानं बुद्धौ एव विद्यते । अत एव विज्ञानं वै ब्रह्म इति ।

    ४६। वरुणः - पुत्र ! सत्यं भाषसे। अतः बौद्धिकविकासाय विज्ञानमयकोषस्य विकासः कर्त्तव्यः। तदर्थं प्रतिदिनं ध्यानं योगासनं च कर्तव्यम्।

    ४७। किञ्च यदि ब्रह्मणः स्वरूपं वेत्तुम् इच्छति तर्हि इतोऽपि प्रयतताम्, अन्विष्यतां च ।

    ४८। भृगुः - अस्तु श्रीमन् !

    ४९। (भृगुः पुनः बहुकालं यावत् तपश्चर्यां करोति । तपस्तप्त्वा प्रसन्नमुखेन पितुः निकटे समुपस्थितो भवति ।)

    ५०। वरुणः - भोः वत्स ! तपसा त्वया किं विज्ञातम् ?

    ५१। भृगुः - हे भगवन् ! अत्यन्तं सूक्ष्मचिन्तनेन तपसा च मया एवम् अवबुद्धम् आनन्दो वै ब्रह्म इति ।

    ५२। वरुणः - हे पुत्र ! कथम् आनन्दो वै ब्रह्म इति ?

    ५३। भृगुः - हे पितः ! अस्माकं सर्वकर्माणि आनन्दाय भवन्ति । अस्माकं कर्मणो लक्ष्यम् आनन्दप्राप्तिरेव ।

    ५४। आनन्देन एव प्राणिनो जीवन्ति। आनन्देन रहितं जीवनं मृत्युरूपमिति । तस्मात् आनन्दो वै ब्रह्म इति ।

    ५५। वरुणः - हे वत्स ! त्वया सत्यं प्रकटितम् । अतः आनन्दप्राप्तये प्रतिदिनं ध्यानं योगासनं च कर्तव्यम्। प्राणिषु दया कर्तव्या। परोपकारः कर्तव्यः ।

    ५६। रागः, द्वेषः, ईर्ष्या, क्रोधः, लोभः, मोहश्च हातव्याः । सर्वदा ईश्वरं सेवतां मोदतां च ।

    ५७। भृगुः - अस्तु श्रीमन् ! तथैव आचरामि ।

    ५८। वरुणः - हे पुत्र ! त्वं तपसा सूक्ष्मविज्ञानेन च अन्नस्य, प्राणस्य, मनसः, विज्ञानस्य, आनन्दस्य च महत्त्वं ज्ञातवान्।

    ५९। एतैः पञ्चभिरेव अस्माकं पूर्णविकासो भवति, अतः एते ब्रह्मपदेन व्यवह्रियन्ते। ब्रह्मणः स्वरूपं तु ततोऽपि परे अस्ति। एतानि ब्रह्मज्ञानाय द्वाराणि सन्ति।

    ६०। यदि एतेषां क्रमशो विकासं करिष्यसि तर्हि ब्रह्मणः स्वरूपबोधो भविष्यति। उक्तञ्च -

    ६१। आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः इति।

    ६२। भृगुः - अस्तु श्रीमन् ! अनुगृहीतोऽस्मि ।


    SECTION 4 — अन्वय


    वाक्यम् ११ (श्लोकः):

    मूल: आहारात् सर्वभूतानि सम्भवन्ति महीपते। आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥

    अन्वयः: हे महीपते ! सर्वभूतानि आहारात् सम्भवन्ति, जन्तवः आहारेण विवर्धन्ते, तेन च जीवन्ति।

    Hindi note: सम्बोधन (महीपते) को वाक्य के आरम्भ में लाया गया है और वाक्यों को कर्ता-कर्म-क्रिया के क्रम में रखा गया है।


    वाक्यम् २४ (श्लोकः):

    मूल: यावद् वायुः स्थितो देहे तावज्जीवनमुच्यते । मरणं तस्य निष्क्रान्तिस्ततो वायुं निरोधयेत् ॥

    अन्वयः: यावद् देहे वायुः स्थितः [भवति], तावद् जीवनम् उच्यते। तस्य निष्क्रान्तिः मरणम् [अस्ति], ततः वायुं निरोधयेत्।

    Hindi note: 'भवति' और 'अस्ति' क्रियाओं को वाक्य की पूर्णता के लिए जोड़ा गया है।


    वाक्यम् ३४ (श्लोकः):

    मूल: कामः संकल्पो विचिकित्सा श्रद्धाऽश्रद्धा धृतिरधृतिर्कीर्धीर्भीरित्येतत् सर्वं मन एव ।

    अन्वयः: कामः, सङ्कल्पः, विचिकित्सा, श्रद्धा, अश्रद्धा, धृतिः, अधृतिः, हीः, धीः, भीः इति एतत् सर्वं मनः एव [अस्ति]।

    (अन्वयः मूल वाक्य के समान है, केवल सन्धियों को अलग किया गया है)


    वाक्यम् ६१ (श्लोकः):

    मूल: आहारशुद्धौ सत्त्वशुद्धिः सत्त्वशुद्धौ ध्रुवा स्मृतिः । स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः इति।

    अन्वयः: आहारशुद्धौ सत्त्वशुद्धिः [भवति], सत्त्वशुद्धौ ध्रुवा स्मृतिः [भवति]। स्मृतिलम्भे सर्वग्रन्थीनां विप्रमोक्षः [भवति] इति।

    (अन्वयः में क्रिया 'भवति' जोड़ी गई है)

    EXAM TIP:CBSE में 'अन्वयं पूरयत' प्रश्न के लिए सही Subject → Object → Verb क्रम अनिवार्य है। (CBSE tests Anvaya directly. Marks are lost when students reproduce the original word order.)

    SECTION 5 — शब्दार्थ

    संस्कृत पद

    हिंदी अर्थ

    English Meaning

    अन्वेष्टव्यम्

    खोज करनी चाहिए

    To be explored/searched

    अवबुद्धम्

    ज्ञातम् / समझा गया

    Understood

    उदीरितम्

    उक्तम् / कहा गया

    Spoken / Said

    विचिकित्सा

    सन्देहः

    Doubt

    विप्रमोक्षः

    अत्यन्त मोक्षः / मुक्ति

    Final liberation

    धृतिः

    धैर्य

    Patience / Courage

    हीः

    लज्जा

    Modesty / Shame

    भीः

    भयम्

    Fear

    धीः

    बुद्धिः

    Intelligence / Wisdom

    निष्क्रान्तिः

    बाहर निकलना (मृत्यु)

    Going out (Death)

    परिहर्तव्यम्

    त्याग करना चाहिए

    Should be discarded

    प्रकटितम्

    प्रकाशितम् / बताया

    Revealed / Expressed

    भूतानि

    प्राणी जन

    Living beings

    विज्ञानम्

    बुद्धितत्त्वम् / विशेष ज्ञान

    Intellect / Specialized knowledge

    सम्भवन्ति

    जायन्ते / उत्पन्न होते हैं

    Arise / Are born

    सर्वग्रन्थीनाम्

    सभी (अज्ञान रूपी) गाँठों का

    Of all the doubts/knots

    साधनीयम्

    संस्करणीयम् / साधना चाहिए

    Should be achieved/cultivated

    स्मृतिलम्भे

    आत्मज्ञान की प्राप्ति होने पर

    On obtaining everlasting memory

    हातव्याः

    त्याग करना चाहिए

    Should be sacrificed / abandoned

    सङ्कल्पः

    प्रतिज्ञा

    Resolve

    SECTION 6 — हिंदी अनुवाद


    १. (एक बार ब्रह्मज्ञान जानने के लिए उत्सुक वरुण के पुत्र भृगु ने विनम्रतापूर्वक पिता के पास जाकर निवेदन किया)

    २. भृगु: "हे पिता! मैं आपको आदरपूर्वक प्रणाम करता हूँ।

    ३. भगवन्! ब्रह्म के विषय में मेरे मन में कुछ जानने की इच्छा है। वह ब्रह्म क्या है जिससे यह सारा संसार चलाया जा रहा है? कृपया उपदेश दें।"

    ४. वरुण: "पुत्र! तुम्हारा कल्याण हो। ब्रह्म का ज्ञान प्राप्त करने के लिए तुम खुद ही खोज करो। प्रयास और अभ्यास करो। तप (कठोर परिश्रम) करो। तपस्या से ही उसे जाना जाता है।"

    ५. भृगु: "ठीक है पिताजी!"

    ६. (उसके बाद भृगु ने कई वर्षों तक तपस्या की। तपस्या करके वह फिर पिता के पास गया। पिता ने उससे पूछा -)

    ७. वरुण: "हे पुत्र! तुमने क्या जाना?"

    ८. भृगु: "हे पिता! 'अन्न ही ब्रह्म है' ऐसा मैंने जाना।"

    ९. वरुण: "अन्न को ब्रह्म के रूप में कैसे जाना?"

    १०. भृगु: "हे पिता! अन्न से ही सभी प्राणी पैदा होते हैं। अन्न से ही प्राणी जीवित रहते हैं। अन्न से ही शरीर और बल बढ़ता है। इसलिए अन्न ही ब्रह्म है। कहा भी गया है -"

    ११. "हे राजन्! सभी प्राणी आहार (अन्न) से पैदा होते हैं, आहार से ही बढ़ते हैं और उसी से जीवित रहते हैं।"

    १२. वरुण: "पुत्र! तुमने बिल्कुल सही समझा है। इसलिए कहा जाता है - अन्न ही प्राणियों में सबसे बड़ा (श्रेष्ठ) है। इसीलिए इसे 'सर्वोषध' (सबकी दवा) कहा जाता है।

    १३. इसलिए कभी भी अन्न की निंदा (अपमान) नहीं करनी चाहिए। अन्न को हमेशा ईश्वर मानकर खाना चाहिए। अन्न को कभी नहीं छोड़ना चाहिए। प्रयास करके बहुत सारा अन्न उगाना चाहिए।

    १४. हमेशा सात्त्विक (शुद्ध) और फायदेमंद भोजन खाना चाहिए। लेकिन हे बेटा! ब्रह्म को जानने के लिए अभी और प्रयास करो। तपस्या करो।"

    १५. भृगु: "ठीक है पिताजी!"

    १६. (फिर से भृगु पहाड़ पर जाकर कई वर्षों तक तपस्या करता है। तपस्या करके पिता के पास आता है। बेटे को आया देखकर पिता पूछते हैं)

    १७. वरुण: "हे पुत्र! तपस्या से तुमने क्या जाना?"

    १८. भृगु: "हे पिता! 'प्राण (साँस) ही ब्रह्म है'।"

    १९. वरुण: "हे भृगु! प्राण ब्रह्म है, यह कैसे जाना?"

    २०. भृगु: "हे भगवन्! प्राण ही प्राणियों की उम्र है। प्राण पर ही शरीर टिका है। प्राण ही हमारा जीवन है। प्राण के बिना शरीर बिना काम का (मृत) हो जाता है।

    २१. इसलिए प्राण सबसे बड़ा और श्रेष्ठ है। इसलिए मैंने जाना कि प्राण ही ब्रह्म है।"

    २२. वरुण: "पुत्र! तुमने सच कहा है। प्राण से ही ये प्राणी पैदा होते हैं। प्राण से ही जीवित रहते हैं। प्राण शक्ति से ही शारीरिक काम करने की शक्ति का विकास होता है।

    २३. इसलिए प्राण की हर तरह से रक्षा करनी चाहिए। इसलिए प्राण के विकास के लिए रोज़ प्राणायाम करना चाहिए। कहा भी गया है -

    २४. जब तक शरीर में वायु (प्राण) है, तब तक ही जीवन कहा जाता है। उसका बाहर निकल जाना ही मौत है, इसलिए वायु (प्राण) को रोककर रखना (नियंत्रित करना) चाहिए।"

    २५. "पुत्र! तुमने तपस्या से प्राण तत्व का महत्व जान लिया है। लेकिन ब्रह्मज्ञान के लिए अभी और कठोर तपस्या करो।"

    २६. भृगु: "ठीक है पिताजी!"

    २७. (वह फिर लंबे समय तक जंगल में जाकर तपस्या करता है। तपस्या करके खुश चेहरे के साथ वरुण के पास आता है, वरुण भृगु से पूछते हैं -)

    २८. वरुण: "हे पुत्र! तुमने तपस्या से क्या जाना?"

    २९. भृगु: "हे पिताजी! मैंने तपस्या से जाना कि 'मन ही ब्रह्म है'।"

    ३०. वरुण: "पुत्र! मन ब्रह्म कैसे है?"

    ३१. भृगु: "हे पिता! मैंने तपस्या से यह महसूस किया कि हमारा मन ही सब कामों को करवाने वाला है। सभी इन्द्रियाँ भी मन के द्वारा ही चलाई जाती हैं।

    ३२. मनुष्य मन से ही सब काम पूरे करता है। मन से ही संकल्प, भावनाएँ और विचार पैदा होते हैं। इसलिए मन ही ब्रह्म है।"

    ३३. वरुण: "हे बेटा! तुमने सही महसूस किया कि मन ही सब कुछ है। इसलिए उपनिषद में कहा गया है -

    ३४. इच्छा (काम), संकल्प, संदेह (विचिकित्सा), श्रद्धा, अश्रद्धा, धैर्य, अधीरता, लज्जा, बुद्धि और डर—यह सब मन ही है।

    ३५. बेटा! मनुष्य सोचने की शक्ति, मनन करने की शक्ति और पक्के इरादे की शक्ति से सब कुछ पा सकता है। इसलिए मन की शक्ति पाने के लिए मन को हमेशा अच्छे कामों से साधना चाहिए।

    ३६. उसे शोक से दूर, उत्साह से भरा और शांत बनाना चाहिए। भोजन की शुद्धि भी करनी चाहिए। और हे पुत्र! ब्रह्म को जानने के लिए अभी और प्रयास करो।"

    ३७. भृगु: "ठीक है श्रीमान!"

    ३८. (फिर से भृगु बहुत समय तक कठोर तप करता है, तप करके पिता के पास पहुँचता है, पिता उससे पूछते हैं)

    ३९. वरुण: "हे भृगु! तपस्या से क्या महसूस किया?"

    ४०. भृगु: "हे पिता! मैंने तपस्या और गहरी सोच (सूक्ष्म ज्ञान) से यह जाना कि 'विज्ञान ही ब्रह्म है'।"

    ४१. वरुण: "पुत्र! विज्ञान क्या है?"

    ४२. भृगु: "हे भगवन्! बुद्धि तत्त्व ही विज्ञान है।"

    ४३. वरुण: "पुत्र! विज्ञान (बुद्धि) ब्रह्म है, यह कैसे जाना?"

    ४४. भृगु: "हे पिता! बुद्धि तत्व के बिना हमारी समझने की शक्ति, तर्क शक्ति, सही-गलत पहचानने की शक्ति (विवेक), फैसला लेने की शक्ति और याददाश्त का विकास नहीं होता।

    ४५. बुद्धि ही सारथी (ड्राइवर) की तरह हमें काम में लगाती है। सारा ज्ञान बुद्धि में ही मौजूद है। इसलिए विज्ञान (बुद्धि) ही ब्रह्म है।"

    ४६. वरुण: "पुत्र! तुम सच बोल रहे हो। इसलिए बुद्धि के विकास के लिए विज्ञानमय कोष का विकास करना चाहिए। इसके लिए रोज़ ध्यान और योगासन करना चाहिए।

    ४७. और अगर ब्रह्म का असली रूप जानना चाहते हो तो अभी और प्रयास करो, और खोज करो।"

    ४८. भृगु: "ठीक है श्रीमान!"

    ४९. (भृगु फिर लंबे समय तक तपस्या करता है। तपस्या करके प्रसन्न मुख से पिता के पास उपस्थित होता है।)

    ५०. वरुण: "हे बेटा! तपस्या से तुमने क्या जाना?"

    ५१. भृगु: "हे भगवन्! बहुत गहरे चिंतन और तपस्या से मैंने यह समझा कि 'आनंद ही ब्रह्म है'।"

    ५२. वरुण: "हे पुत्र! आनंद ब्रह्म कैसे है?"

    ५३. भृगु: "हे पिता! हमारे सभी काम आनंद पाने के लिए होते हैं। हमारे कामों का लक्ष्य आनंद प्राप्त करना ही है।

    ५४. आनंद से ही प्राणी जीते हैं। आनंद के बिना जीवन मौत के समान है। इसलिए आनंद ही ब्रह्म है।"

    ५५. वरुण: "हे बेटा! तुमने सच बताया है। इसलिए आनंद पाने के लिए रोज़ ध्यान और योगासन करना चाहिए। प्राणियों पर दया करनी चाहिए। परोपकार करना चाहिए।

    ५६. लगाव, नफरत, ईर्ष्या, गुस्सा, लालच और मोह को छोड़ देना चाहिए। हमेशा ईश्वर की सेवा करनी चाहिए और खुश रहना चाहिए।"

    ५७. भृगु: "ठीक है श्रीमान! मैं वैसा ही आचरण करूँगा।"

    ५८. वरुण: "हे पुत्र! तुमने तपस्या और गहरे ज्ञान से अन्न, प्राण, मन, विज्ञान (बुद्धि) और आनंद का महत्व जान लिया है।

    ५९. इन पाँचों से ही हमारा पूरा विकास होता है, इसलिए इन्हें 'ब्रह्म' शब्द से पुकारा जाता है। ब्रह्म का असली रूप तो इनसे भी परे है। ये ब्रह्मज्ञान (ईश्वर को जानने) के दरवाज़े हैं।

    ६०. अगर तुम इनका एक-एक करके विकास करोगे तो तुम्हें ब्रह्म के असली रूप का ज्ञान हो जाएगा। कहा भी गया है -

    ६१. भोजन की शुद्धि होने पर मन (सत्त्व) शुद्ध होता है, मन शुद्ध होने पर याददाश्त (स्मृति/आत्मज्ञान) पक्की होती है। आत्मज्ञान मिलने पर अज्ञान की सभी गाँठें खुल जाती हैं (मोक्ष मिल जाता है)।"

    ६२. भृगु: "ठीक है श्रीमान! मैं आभारी (अनुगृहीत) हूँ।"


    SECTION 7 — English Translation


    1. (Once, eager for the knowledge of Brahman, Varuna's son Bhrigu humbly approached his father and requested)

    2. Bhrigu: "O respected father! I respectfully greet you.

    3. Lord! I have a curiosity regarding Brahman. What is that Brahman by which this entire universe is operated? Please instruct me."

    4. Varuna: "Son! May good happen to you. To know Brahman, you must investigate it yourself. Make efforts and practice. Perform penance (Tapas). It is known only through penance."

    5. Bhrigu: "Alright, father!"

    6. (Then Bhrigu performed penance for many years. Having completed his penance, he went back to his father. The father asked him -)

    7. Varuna: "O son! What did you come to know?"

    8. Bhrigu: "O father! Food (Annam) indeed is Brahman."

    9. Varuna: "How did you understand food as Brahman?"

    10. Bhrigu: "O father! Living beings are born from food alone. Beings live only by food. Body and strength grow only because of food. Therefore, food is Brahman. It is indeed said -"

    11. "O King! All living beings are born from food. They grow by food, and by that food, creatures live."

    12. Varuna: "Son! You have understood correctly. Therefore it is said - Food is the eldest of all beings. Hence it is called the universal medicine (Sarvoshadham).

    13. Therefore, one should never disrespect food. Always consume food regarding it as divine. Food must never be discarded. One should strive to produce food in abundance.

    14. Always consume pure (Sattvic) and beneficial food. But, O my child! To truly know Brahman, try even more. Perform penance."

    15. Bhrigu: "Alright, father!"

    16. (Again, Bhrigu went to the mountains and performed penance for many years. After his penance, he approached his father. Seeing his son, the father asked)

    17. Varuna: "O son! What did you learn through penance?"

    18. Bhrigu: "O father! The life-breath (Prana) indeed is Brahman."

    19. Varuna: "O Bhrigu! How did you know Prana is Brahman?"

    20. Bhrigu: "O Lord! Prana is the lifespan of all beings. The body is established in Prana. Prana itself is our life. Without Prana, the body becomes motionless (dead).

    21. Therefore, Prana is the eldest and the greatest. Thus, I realized Prana is Brahman."

    22. Varuna: "Son! You have spoken the truth. From Prana alone these beings are born. Created beings live by Prana. The physical ability to act develops solely through the power of Prana.

    23. Hence, Prana must be protected by all means. Therefore, for the development of Prana, one must practice Pranayama daily. It is said -

    24. As long as air (Prana) remains in the body, it is called life. Its departure is death; hence one should control the air (breath)."

    25. "Son! You have realized the importance of the life principle through penance. But to know Brahman, perform even more rigorous penance."

    26. Bhrigu: "Alright, father!"

    27. (He again went to the forest for a long time and performed penance. After finishing, he approached Varuna with a cheerful face. Varuna asked Bhrigu -)

    28. Varuna: "O son! What did you discover through penance?"

    29. Bhrigu: "O father! Through penance, I realized that the Mind (Manas) indeed is Brahman."

    30. Varuna: "Son! How is the mind Brahman?"

    31. Bhrigu: "O father! Through penance, I experienced that our mind is the initiator of all actions. All senses are also operated by the mind.

    32. A human accomplishes every task only through the mind. Desires, emotions, and thoughts originate from the mind. Therefore, the mind is Brahman."

    33. Varuna: "O child! You have rightly experienced that the mind is everything. Therefore, it is said in the Upanishad -

    34. Desire, resolution, doubt, faith, lack of faith, patience, impatience, modesty, intellect, and fear—all these are nothing but the mind.

    35. Child! A human can achieve everything through the power of thinking, reflecting, and firm resolution. Therefore, to gain mental power, the mind must always be disciplined with good deeds.

    36. It should be kept free from grief, filled with enthusiasm, and peaceful. Dietary purity must also be maintained. And, O son! Try even more to know Brahman."

    37. Bhrigu: "Alright, sir!"

    38. (Again, Bhrigu performed severe penance for a long time, and then went to his father. The father asked him)

    39. Varuna: "O Bhrigu! What did you experience through penance?"

    40. Bhrigu: "O father! Through penance and subtle observation, I learned that Intellect (Vijnanam) indeed is Brahman."

    41. Varuna: "Son! What exactly is Vijnanam?"

    42. Bhrigu: "O Lord! The principle of intellect itself is Vijnanam."

    43. Varuna: "Son! How did you realize intellect is Brahman?"

    44. Bhrigu: "O father! Without the intellectual principle, our power of comprehension, logic, discrimination ( विवेक), decision-making, and memory cannot develop.

    45. Intelligence alone drives us into action like a charioteer. Complete knowledge resides only in the intellect. Therefore, Intellect is Brahman."

    46. Varuna: "Son! You speak the truth. Therefore, for intellectual growth, the Vijnanamaya Kosha must be developed. For that, meditation and yoga postures must be practiced daily.

    47. Furthermore, if you wish to know the true nature of Brahman, try even more, and keep investigating."

    48. Bhrigu: "Alright, sir!"

    49. (Bhrigu again performed penance for a long time. Having done penance, he presented himself before his father with a joyful face.)

    50. Varuna: "O child! What did you realize through penance?"

    51. Bhrigu: "O Lord! Through extremely subtle contemplation and penance, I understood that Bliss (Anandam) indeed is Brahman."

    52. Varuna: "O son! How is Bliss Brahman?"

    53. Bhrigu: "O father! All our actions are for the sake of joy. The ultimate goal of our actions is the attainment of bliss.

    54. Beings live solely for bliss. A life devoid of bliss is like death. Therefore, Bliss is Brahman."

    55. Varuna: "O child! You have revealed the truth. Therefore, to attain bliss, daily meditation and yoga postures should be practiced. Compassion should be shown to all beings. Benevolence should be practiced.

    56. Attachment, hatred, jealousy, anger, greed, and delusion must be abandoned. Always serve God and rejoice."

    57. Bhrigu: "Alright, sir! I will act accordingly."

    58. Varuna: "O son! Through penance and subtle knowledge, you have realized the importance of food, life-breath, mind, intellect, and bliss.

    59. Our complete development happens only through these five; therefore, they are referred to by the term 'Brahman'. The true nature of Brahman is even beyond these. These are just the gateways to knowing Brahman.

    60. If you develop these sequentially, you will attain the realization of Brahman's true nature. It is also said -

    61. When food is pure, the inner nature (mind) becomes pure; when the inner nature is pure, the memory (self-awareness) becomes firm. Upon attaining that memory, there is complete liberation from all knots of ignorance."

    62. Bhrigu: "Alright, sir! I am highly obliged."


    SECTION 8 — सारांश


    HINDI:

    प्रस्तुत पाठ "अन्नाद् आनन्दं प्रति" तैत्तिरीयोपनिषद् की भृगुवल्ली से लिया गया है। यह पाठ पिता वरुण और उनके पुत्र भृगु के बीच ब्रह्म (ईश्वर/परम सत्य) की खोज पर आधारित एक दार्शनिक संवाद है। जब भृगु अपने पिता से ब्रह्म का ज्ञान मांगते हैं, तो पिता उसे सीधे उत्तर देने के बजाय 'तप' (स्वयं खोज और परिश्रम) करने की सलाह देते हैं। भृगु तपस्या करते हैं और क्रमशः पाँच कोषों की खोज करते हैं: अन्न (अन्नमय कोष), प्राण (प्राणमय कोष), मन (मनोमय कोष), विज्ञान या बुद्धि (विज्ञानमय कोष), और अंत में आनंद (आनंदमय कोष)। पिता वरुण उसे समझाते हैं कि इन पाँचों तत्वों के क्रमिक विकास से ही मनुष्य का समग्र (संपूर्ण) विकास होता है। शुद्ध आहार, प्राणायाम, अच्छे विचार, योग और दुर्गुणों के त्याग से ही मनुष्य चरम आनंद और मोक्ष प्राप्त कर सकता है।

    ENGLISH:

    The chapter "Annad Anandam Prati" is a philosophical dialogue extracted from the Bhrigu Valli of the Taittiriya Upanishad, featuring Sage Varuna and his son Bhrigu. When Bhrigu asks his father about the nature of Brahman (the Ultimate Truth), Varuna does not give a direct answer. Instead, he advises Bhrigu to discover it himself through 'Tapas' (penance and rigorous inquiry). Through repeated penance, Bhrigu sequentially discovers the five sheaths of human existence (Panchakoshas): Annam (Food), Prana (Life-breath), Manas (Mind), Vijnanam (Intellect), and finally Anandam (Bliss). Varuna explains that the holistic development of a human being occurs through the sequential cultivation of these five elements. By consuming pure food, practicing Pranayama, maintaining pure thoughts, doing yoga, and abandoning negative emotions, a person can attain supreme bliss and ultimate liberation.


    SECTION 9 — केंद्रीय भाव एवं मूल्य

    9A. विषय-वस्तु सारणी

    विषय

    पाठ में स्पष्टीकरण

    मुख्य विषय

    पञ्चकोषों (अन्न, प्राण, मन, विज्ञान, आनंद) के क्रमिक विकास से मानव का समग्र विकास। (Holistic human development through the five Koshas.)

    शिक्षण-पद्धति

    गुरु (वरुण) द्वारा शिष्य (भृगु) को सीधा उत्तर न देकर स्वयं शोध (तप) के लिए प्रेरित करना। (Encouraging self-discovery instead of spoon-feeding knowledge.)

    अन्न और प्राण का महत्त्व

    अन्न शरीर का आधार है, इसे कभी नहीं छोड़ना चाहिए। प्राण जीवन है, इसकी रक्षा प्राणायाम से करनी चाहिए। (Food is the base of the body; Prana is life itself.)

    प्रधान रस + स्थायी भाव

    शान्तरसः (स्थायी भाव: निर्वेदः)


    9B. मानवीय एवं सांस्कृतिक मूल्य

    • तपः / स्वाध्यायः (कठोर परिश्रम और स्व-अध्ययन / Hard work & Self-study)

      • तपसा एव ज्ञायते / तपस्तप्यताम्।

      • यह पाठ सिखाता है कि बिना स्वयं मेहनत किए और गहन चिंतन किए सच्चा ज्ञान प्राप्त नहीं होता।

      • (True knowledge cannot be attained without rigorous self-effort and deep contemplation.)


    • अन्न-सम्मानम् (अन्न का आदर / Respect for Food)

      • अतः कदापि अन्नं न निन्द्यात्। अन्नं सदा ईश्वरबुद्ध्या सेवताम्।

      • अन्न ही जीवन का आधार है, इसलिए कभी भी अन्न का अपमान या बर्बादी नहीं करनी चाहिए।

      • (Food is the foundation of life; one must never waste or disrespect it.)


    • जिज्ञासा (ज्ञान प्राप्त करने की इच्छा / Curiosity)

      • ब्रह्मविषये मयि काचिद् जिज्ञासा वर्तते।

      • एक आदर्श छात्र में हमेशा नया सीखने और सत्य को जानने की तीव्र इच्छा (जिज्ञासा) होनी चाहिए, जैसा कि भृगु में थी।

      • (An ideal student must possess an intense desire to seek the ultimate truth.)

    EXAM TIP:मूल्यपरक प्रश्न 2-4 अंकों के लिए नियमित आते हैं।Always name the value in Sanskrit first (e.g., तपः, अन्न-सम्मानम्).

    SECTION 10 — पात्र परिचय (Character Sketches)


    १. भृगुः (Bhrigu)

    SANSKRIT:

    भृगुः वरुणस्य पुत्रः एकः आदर्शः शिष्यः च अस्ति। तस्य मुख्यगुणाः अदम्य-जिज्ञासा, गुरुभक्तिः, तपस्यायां निष्ठा च सन्ति। पाठे सः ब्रह्मज्ञानं प्राप्तुं पुनः पुनः कठोरं तपः आचरति। प्रमाणम् - "भगवन् ! ब्रह्मविषये मयि काचिद् जिज्ञासा वर्तते।"

    हिंदी अनुवाद:

    भृगु वरुण के पुत्र और एक आदर्श शिष्य हैं। उनके मुख्य गुण अदम्य जिज्ञासा, गुरु-भक्ति और तपस्या में निष्ठा हैं। पाठ में वे ब्रह्मज्ञान प्राप्त करने के लिए बार-बार कठोर तपस्या करते हैं।

    English:

    Bhrigu is Varuna's son and an ideal disciple. His main qualities are immense curiosity, devotion to his guru, and unwavering dedication to penance. In the text, he repeatedly performs severe penance to attain the knowledge of Brahman.


    २. वरुणः (Varuna)

    SANSKRIT:

    वरुणः भृगोः पिता एकः श्रेष्ठः मार्गदर्शकः (गुरुः) च अस्ति। सः शिष्यं साक्षात् उत्तरं न ददाति, अपि तु तं स्वयमेव सत्यान्वेषणाय प्रेरयति। तस्य शिक्षणशैली वैज्ञानिकी अस्ति। प्रमाणम् - "ब्रह्मज्ञानाय त्वया स्वयमेव अन्वेषणं क्रियताम्।"

    हिंदी अनुवाद:

    वरुण भृगु के पिता और एक श्रेष्ठ मार्गदर्शक (गुरु) हैं। वे शिष्य को सीधे उत्तर नहीं देते, बल्कि उसे स्वयं सत्य की खोज करने के लिए प्रेरित करते हैं। उनकी पढ़ाने की शैली बहुत वैज्ञानिक है।

    English:

    Varuna is Bhrigu's father and an excellent guide (guru). Instead of giving direct answers, he inspires his disciple to seek the truth himself. His teaching methodology is highly scientific and encourages self-discovery.


    SECTION 11 — गद्यांश आधारित प्रश्न

    गद्यांशः १

    भृगुः - हे पितः ! अन्नाद् एव प्राणिनः जायन्ते। अन्नेन एव प्राणिनः जीवन्ति । अन्नेनैव शरीरं बलं च वर्धेते। अतोऽन्नं ब्रह्म इति। उच्यते हि - आहारात् सर्वभूतानि सम्भवन्ति महीपते। आहारेण विवर्धन्ते तेन जीवन्ति जन्तवः ॥

    वरुणः - पुत्र ! त्वया सम्यग् अवबुद्धम्। अत उच्यते - अन्नं हि भूतानां ज्येष्ठम् । तस्मात् सर्वोषधम् इति उच्यते। अतः कदापि अन्नं न निन्द्यात् । अन्नं सदा ईश्वरबुद्ध्या सेवताम्। कदापि अन्नं न परिहर्तव्यम्। प्रयत्नेन अन्नं बहु कुर्वीत।


    प्र.(i) — अर्थबोध (1 mark):

    अन्नं सदा कया बुद्ध्या सेवताम्?

    (क) स्वार्थबुद्ध्या (ख) ईश्वरबुद्ध्या

    (ग) लोभबुद्ध्या (घ) शत्रुबुद्ध्या

    उत्तरम्: (ख)

    हिंदी: गद्यांश में कहा गया है कि 'अन्नं सदा ईश्वरबुद्ध्या सेवताम्' अर्थात् अन्न को ईश्वर मानकर खाना चाहिए।

    English: The passage states that food should always be consumed considering it as divine (Ishvarabuddhyā).


    प्र.(ii) — अन्वय पूर्तिः (1 mark):

    मञ्जूषातः पदं चित्वा अन्वयं पूरयत —

    [ सर्वभूतानि / जन्तवः / आहारात् ]

    हे महीपते ! _______ आहारात् सम्भवन्ति, जन्तवः आहारेण विवर्धन्ते।

    उत्तरम्: सर्वभूतानि

    हिंदी: हे राजन्! 'सभी प्राणी' (सर्वभूतानि) आहार से उत्पन्न होते हैं।

    English: O King! 'All beings' (Sarvabhutani) are born from food.


    प्र.(iii) — शब्दार्थ (1 mark):

    'परिहर्तव्यम्' इति पदस्य अर्थः अस्ति —

    (क) भोक्तव्यम् (ख) त्यक्तव्यम्

    (ग) मन्तव्यम् (घ) दातव्यम्

    उत्तरम्: (ख)

    हिंदी: परिहर्तव्यम् का अर्थ है 'छोड़ देना या त्याग करना चाहिए' (त्यक्तव्यम्)।

    English: Parihartavyam means 'should be discarded or abandoned'.


    प्र.(iv) — प्रश्ननिर्माणम् (1 mark):

    अधोलिखितवाक्ये रेखाङ्कितपदम् आश्रित्य प्रश्नं रचयत —

    अतः कदापि अन्नं न निन्द्यात् ।

    उत्तरम्: अतः कदापि किम् न निन्द्यात् ?

    हिंदी: 'अन्नं' नपुंसकलिंग कर्म कारक है (किसकी निंदा न करें?), इसलिए 'किम्' का प्रयोग होगा।

    English: 'Annam' is a neuter object, so 'Kim' (what) is used.


    गद्यांशः २

    भृगुः - हे पितः ! मया तपसा सूक्ष्मज्ञानेन च इदं ज्ञातं यद् विज्ञानं वै ब्रह्म इति ।

    वरुणः - पुत्र ! किं नाम विज्ञानम् ?

    भृगुः - हे भगवन् ! बुद्धितत्त्वमेव विज्ञानम् ।

    वरुणः - पुत्र ! कथं विज्ञानं (बुद्धितत्त्वम्) ब्रह्म इति विज्ञातम् ?

    भृगुः - हे पितः ! बुद्धितत्त्वं विना अस्माकं बोधशक्तेः, तर्कशक्तेः, विवेकशक्तेः, निर्णयशक्तेः, स्मृतिशक्तेश्च विकासो न भवति । बुद्धिरेव सारथिरूपेण अस्मान् कर्मणि प्रवर्तयति । समग्रज्ञानं बुद्धौ एव विद्यते । अत एव विज्ञानं वै ब्रह्म इति ।


    प्र.(i) — अर्थबोध (1 mark):

    भृगोः मतानुसारं विज्ञानं किम् अस्ति?

    (क) प्राणतत्त्वम् (ख) शरीरतत्त्वम्

    (ग) बुद्धितत्त्वम् (घ) मनस्तत्त्वम्

    उत्तरम्: (ग)

    हिंदी: भृगु के अनुसार 'बुद्धि तत्त्व ही विज्ञान है'।

    English: According to Bhrigu, 'the principle of intellect' (Buddhitattvam) is Vijnanam.


    प्र.(ii) — अन्वय पूर्तिः (1 mark):

    मञ्जूषातः पदं चित्वा अन्वयं पूरयत —

    [ विकासो / बोधशक्तेः / सारथिरूपेण ]

    बुद्धिरेव _______ अस्मान् कर्मणि प्रवर्तयति ।

    उत्तरम्: सारथिरूपेण

    हिंदी: बुद्धि ही 'सारथी के रूप में' (सारथिरूपेण) हमें कर्मों में लगाती है।

    English: Intelligence alone drives us into action 'like a charioteer' (Sarathirupena).


    प्र.(iii) — शब्दार्थ (1 mark):

    'अवबुद्धम्' इति पदस्य अर्थः अस्ति —

    (क) नष्टम् (ख) ज्ञातम्

    (ग) लिखितम् (घ) आगतम्

    उत्तरम्: (ख)

    हिंदी: अवबुद्धम् का अर्थ है 'समझ लिया गया' या 'ज्ञातम्'।

    English: Avabuddham means understood or known.


    प्र.(iv) — प्रश्ननिर्माणम् (1 mark):

    अधोलिखितवाक्ये रेखाङ्कितपदम् आश्रित्य प्रश्नं रचयत —

    समग्रज्ञानं बुद्धौ एव विद्यते ।

    उत्तरम्: समग्रज्ञानं कुत्र (कस्याम्) एव विद्यते ?

    हिंदी: 'बुद्धौ' सप्तमी विभक्ति (स्थान/आधार) है, इसलिए 'कुत्र' (कहाँ) या 'कस्याम्' का प्रयोग होगा।

    English: 'Buddhau' is the locative case indicating place/base, so 'Kutra' (where) is appropriate.


    SECTION 12 — लघु उत्तरीय प्रश्न (3 Marks)

    प्र१. भृगोः जिज्ञासा कस्मिन् विषये आसीत्?

    मूल बिंदु 1 (VP1): ब्रह्मविषये (Regarding Brahman)

    मूल बिंदु 2 (VP2): येन इदं जगत् सञ्चाल्यते (By which this world is operated)

    उत्तरम् (Sanskrit):

    भृगोः जिज्ञासा 'ब्रह्म' विषये आसीत्। सः ज्ञातुम् इच्छति स्म यत् तद् ब्रह्म किम् अस्ति येन इदं सर्वं जगत् सञ्चाल्यते। अस्य ज्ञानस्य प्राप्तये एव सः पितरं वरुणं निवेदितवान्।

    हिंदी अनुवाद:

    भृगु की जिज्ञासा 'ब्रह्म' के विषय में थी। वह यह जानना चाहता था कि वह ब्रह्म क्या है जिसके द्वारा इस पूरे संसार को चलाया जा रहा है। इसी ज्ञान को पाने के लिए उसने अपने पिता वरुण से निवेदन किया था।

    English:

    Bhrigu's curiosity was regarding 'Brahman'. He wanted to know what that Brahman is, by which this entire universe is operated. It was to acquire this knowledge that he requested his father Varuna.


    प्र२. वरुणः भृगुं ब्रह्मज्ञानाय किम् उपदिष्टवान्?

    मूल बिंदु 1 (VP1): स्वयमेव अन्वेषणं क्रियताम् (Investigate it yourself)

    मूल बिंदु 2 (VP2): तपः आचर्यताम् यतोहि तपसैव ज्ञायते (Perform penance because it is known only through penance)

    उत्तरम् (Sanskrit):

    वरुणः भृगुं साक्षात् उत्तरं न दत्तवान्। सः उपदिष्टवान् यत् ब्रह्मज्ञानाय भृगुणा स्वयमेव अन्वेषणं, यत्नः, अभ्यासश्च करणीयः। "तपः आचर्यताम्, यतोहि तपसैव ब्रह्म ज्ञायते" इति वरुणस्य मुख्यः उपदेशः आसीत्।

    हिंदी अनुवाद:

    वरुण ने भृगु को सीधा उत्तर नहीं दिया। उन्होंने उपदेश दिया कि ब्रह्मज्ञान के लिए भृगु को खुद ही खोज, प्रयास और अभ्यास करना चाहिए। "तपस्या करो, क्योंकि तपस्या से ही ब्रह्म को जाना जाता है," यह वरुण का मुख्य उपदेश था।

    English:

    Varuna did not give a direct answer to Bhrigu. He instructed that for the knowledge of Brahman, Bhrigu must perform the investigation, effort, and practice himself. "Perform penance, because Brahman is known only through penance" was Varuna's main instruction.


    प्र३. मनः केषां प्रवर्तकम् अस्ति, तस्य च सन्तुलनाय किं करणीयम्?

    मूल बिंदु 1 (VP1): मनः सर्वकर्मणः इन्द्रियाणां च प्रवर्तकम् (Mind initiates all actions and senses)

    मूल बिंदु 2 (VP2): सत्कर्मणा साधनम्, शोकरहितं करणम् च (Disciplining through good deeds and keeping it grief-free)

    उत्तरम् (Sanskrit):

    मनः अस्माकं सर्वकर्मणः इन्द्रियाणां च प्रवर्तकम् अस्ति। मानवः मनसा एव सर्वं कार्यं सम्पादयति। अस्य सन्तुलनाय शक्तिप्राप्तये च मनः सदा सत्कर्मणा साधनीयम्, आहारशुद्धिः करणीया, तथा च मनः शोकादिरहितम् उत्साहयुक्तं शान्तं च करणीयम्।

    हिंदी अनुवाद:

    मन हमारे सभी कर्मों और इन्द्रियों को चलाने वाला (प्रवर्तक) है। मनुष्य मन से ही सभी काम पूरे करता है। इसके संतुलन और शक्ति प्राप्ति के लिए मन को हमेशा अच्छे कर्मों से साधना चाहिए, भोजन शुद्ध रखना चाहिए, और मन को शोक से दूर, उत्साह से भरा और शांत रखना चाहिए।

    English:

    The mind is the initiator of all our actions and senses. A human accomplishes every task only through the mind. To balance it and attain mental power, the mind must always be disciplined with good deeds, dietary purity must be maintained, and the mind should be kept free from grief, enthusiastic, and peaceful.


    प्र४. आनन्दमयकोषस्य विकासाय किं किं कर्तव्यम्?

    मूल बिंदु 1 (VP1): ध्यानं योगासनं च (Meditation and Yoga)

    मूल बिंदु 2 (VP2): प्राणिषु दया, रागादित्यागः च (Compassion for beings and abandoning attachment/anger)

    उत्तरम् (Sanskrit):

    आनन्दमयकोषस्य विकासाय प्रतिदिनं ध्यानं योगासनं च कर्तव्यम्। सर्वेषु प्राणिषु दया परोपकारश्च कर्तव्यः। मानवेन रागः, द्वेषः, ईर्ष्या, क्रोधः, लोभः, मोहश्च सर्वथा हातव्याः (त्यक्तव्याः)। सर्वदा ईश्वरस्य सेवा मोदश्च करणीयः।

    हिंदी अनुवाद:

    आनंदमय कोष के विकास के लिए रोज़ ध्यान और योगासन करना चाहिए। सभी प्राणियों पर दया और परोपकार करना चाहिए। मनुष्य को लगाव, नफरत, ईर्ष्या, गुस्सा, लालच और मोह को पूरी तरह छोड़ देना चाहिए। हमेशा ईश्वर की सेवा करनी चाहिए और खुश रहना चाहिए।

    English:

    For the development of the Anandamaya Kosha (Bliss sheath), daily meditation and yoga postures must be practiced. Compassion and benevolence towards all living beings should be shown. A human must completely abandon attachment, hatred, jealousy, anger, greed, and delusion. One should always serve God and remain joyful.


    SECTION 13 — दीर्घ उत्तरीय प्रश्न (5 Marks)


    प्र१. भृगुणा तपसा पञ्चकोषाणां रहस्यं कथं ज्ञातम्? क्रमानुसारं सविस्तरं वर्णयत।

    मूल बिंदु 1 (VP1): अन्नमय-प्राणमय-कोषौ (Food and Prana - Body and breath)

    मूल बिंदु 2 (VP2): मनोमय-विज्ञानमय-कोषौ (Mind and Intellect - Emotions and logic)

    मूल बिंदु 3 (VP3): आनन्दमयकोषः (Bliss - The ultimate goal)

    मूल बिंदु 4 (VP4): क्रमिकविकासस्य महत्त्वम् (Importance of sequential development)

    उत्तरम् (Sanskrit):

    भृगुः पितुः आज्ञया वनं गत्वा पुनः पुनः कठोरं तपः आचरितवान्। तपसा सः क्रमानुसारं पञ्चकोषाणां रहस्यं ज्ञातवान्।

    सर्वप्रथमं सः ज्ञातवान् यत् 'अन्नं वै ब्रह्म', यतोहि अन्नात् एव प्राणिनः जायन्ते वर्धन्ते च (अन्नमयकोषः)। तदनन्तरं सः ज्ञातवान् यत् 'प्राणो वै ब्रह्म', यतोहि प्राणेन विना शरीरं क्रियाशून्यं भवति (प्राणमयकोषः)। ततः तपसा सः अनुभूतवान् यत् 'मनो वै ब्रह्म', यतोहि मनः एव इन्द्रियाणां सर्वकर्मणः च प्रवर्तकम् अस्ति (मनोमयकोषः)। तदनन्तरं सूक्ष्मचिन्तनेन सः 'विज्ञानं (बुद्धिः) वै ब्रह्म' इति ज्ञातवान्, यतोहि बुद्धिं विना तर्क-निर्णयशक्तेः विकासो न भवति (विज्ञानमयकोषः)। अन्ते च अत्यन्तं सूक्ष्मज्ञानेन सः 'आनन्दो वै ब्रह्म' इति ज्ञातवान्, यतोहि सर्वकर्मणां लक्ष्यम् आनन्दप्राप्तिः एव अस्ति (आनन्दमयकोषः)। एतेषां पञ्चकोषाणां क्रमिकविकासेन एव मानवस्य पूर्णविकासो भवति।

    हिंदी अनुवाद:

    भृगु ने पिता की आज्ञा से जंगल में जाकर बार-बार कठोर तपस्या की। तपस्या से उसने क्रम से पाँच कोषों का रहस्य जाना।

    सबसे पहले उसने जाना कि 'अन्न ही ब्रह्म है', क्योंकि अन्न से ही प्राणी पैदा होते और बढ़ते हैं (अन्नमय कोष)। उसके बाद उसने जाना कि 'प्राण ही ब्रह्म है', क्योंकि प्राण के बिना शरीर निर्जीव हो जाता है (प्राणमय कोष)। फिर तपस्या से उसने महसूस किया कि 'मन ही ब्रह्म है', क्योंकि मन ही इन्द्रियों और सभी कर्मों को चलाने वाला है (मनोमय कोष)। इसके बाद गहरी सोच से उसने जाना कि 'विज्ञान (बुद्धि) ही ब्रह्म है', क्योंकि बुद्धि के बिना तर्क और फैसले लेने की शक्ति का विकास नहीं होता (विज्ञानमय कोष)। और अंत में अत्यंत सूक्ष्म ज्ञान से उसने जाना कि 'आनंद ही ब्रह्म है', क्योंकि सभी कर्मों का लक्ष्य आनंद पाना ही है (आनंदमय कोष)। इन पाँचों कोषों के क्रमिक विकास से ही मनुष्य का पूरा विकास होता है।

    English:

    Following his father's command, Bhrigu went to the forest and repeatedly performed severe penance. Through penance, he sequentially discovered the secret of the five Koshas.

    First, he realized that 'Food is Brahman', as beings are born and grow from food (Annamaya Kosha). Next, he understood that 'Prana is Brahman', as the body becomes lifeless without breath (Pranamaya Kosha). Then, through penance, he experienced that 'Mind is Brahman', since the mind is the initiator of all senses and actions (Manomaya Kosha). Following this, with subtle contemplation, he learned that 'Intellect is Brahman', because logic and decision-making cannot develop without intellect (Vijnanamaya Kosha). Finally, with profound insight, he realized that 'Bliss is Brahman', as the ultimate goal of all actions is joy (Anandamaya Kosha). It is through the sequential development of these five sheaths that a human achieves holistic development.


    प्र२. पाठे वर्णितस्य 'अन्नस्य' 'प्राणस्य' च महत्त्वं सोदाहरणं स्पष्टीकुरुत।

    मूल बिंदु 1 (VP1): अन्नस्य महत्त्वम् - भूतानां ज्येष्ठम्, सर्वोषधम् (Importance of Food - Eldest of beings, universal medicine)

    मूल बिंदु 2 (VP2): अन्नविषयकाः नियमाः (Rules regarding food - do not insult, grow in abundance)

    मूल बिंदु 3 (VP3): प्राणस्य महत्त्वम् - शरीरस्य आधारः (Importance of Prana - Base of the body)

    मूल बिंदु 4 (VP4): प्राणायामस्य आवश्यकता (Necessity of Pranayama for life)

    उत्तरम् (Sanskrit):

    अस्मिन् पाठे अन्नस्य प्राणस्य च महती उपयोगिता वर्णिता अस्ति। भृगोः अन्वेषणानुसारम्, अन्नात् एव सर्वे प्राणिनः जायन्ते, अन्नेन एव जीवन्ति, अन्नेनैव शरीरस्य बलं च वर्धते। अन्नं भूतानां ज्येष्ठं सर्वोषधं च कथ्यते। अतः मानवेन कदापि अन्नस्य निन्दा न करणीया, तत् न परिहर्तव्यं, ईश्वरबुद्ध्या च सेवनीयम्।

    तथैव, प्राणः भूतानाम् आयुः अस्ति। प्राणे एव शरीरं प्रतिष्ठितम्। प्राणेन विना इदं शरीरं क्रियाशून्यं (मृतं) भवति। यावद् देहे वायुः (प्राणः) स्थितः तावदेव जीवनम् उच्यते। प्राणशक्त्या एव शारीरिकक्रियाशक्तेः विकासो भवति। अतः प्राणस्य विकासाय रक्षणाय च प्रतिदिनं प्राणायामः करणीयः। अन्नं प्राणश्च मानवजीवनस्य मूलाधारौ स्तः।

    हिंदी अनुवाद:

    इस पाठ में अन्न और प्राण की बहुत बड़ी उपयोगिता बताई गई है। भृगु की खोज के अनुसार, अन्न से ही सभी प्राणी पैदा होते हैं, अन्न से ही जीते हैं, और अन्न से ही शरीर का बल बढ़ता है। अन्न को प्राणियों में सबसे बड़ा और 'सबकी दवा' (सर्वोषध) कहा जाता है। इसलिए मनुष्य को कभी भी अन्न की निंदा नहीं करनी चाहिए, उसे नहीं छोड़ना चाहिए, और ईश्वर मानकर खाना चाहिए।

    उसी प्रकार, प्राण प्राणियों की उम्र है। प्राण पर ही शरीर टिका है। प्राण के बिना यह शरीर बिना काम का (मृत) हो जाता है। जब तक शरीर में वायु (प्राण) है, तब तक ही जीवन कहलाता है। प्राण शक्ति से ही शारीरिक काम करने की शक्ति का विकास होता है। इसलिए प्राण के विकास और रक्षा के लिए रोज़ प्राणायाम करना चाहिए। अन्न और प्राण मानव जीवन के मूल आधार हैं।

    English:

    The immense utility of Food and Prana is described in this chapter. According to Bhrigu's investigation, all beings are born from food, live by food, and physical strength increases solely due to food. Food is called the eldest among beings and the universal medicine (Sarvoshadham). Therefore, humans must never disrespect food, should never discard it, and must consume it considering it as divine.

    Similarly, Prana is the lifespan of beings. The body is established in Prana. Without Prana, this body becomes motionless (dead). As long as air (breath) remains in the body, it is termed life. The physical capacity to act develops only through the power of Prana. Therefore, to develop and protect Prana, Pranayama must be practiced daily. Food and Prana are the fundamental pillars of human life.

    About BhashaLab


    BhashaLab is a dynamic platform dedicated to the exploration and mastery of languages - operating both online and offline. Aligned with the National Education Policy (NEP) 2020 and the National Credit Framework (NCrF), we offer language education that emphasizes measurable learning outcomes and recognized, transferable credits.


    We offer:

    1. NEP alligned offline language courses for degree colleges - English, Sanskrit, Marathi and Hindi

    2. NEP alligned offline language courses for schools - English, Sanskrit, Marathi and Hindi

    3. Std VIII, IX and X - English and Sanskrit Curriculum Tuitions - All boards

    4. International English Olympiad Tuitions - All classes

    5. Basic and Advanced English Grammar - Offline and Online - Class 3 and above

    6. English Communication Skills for working professionals, adults and students - Offline and Online


    Contact: +91 86577 20901, +91 97021 12044


     
     
     

    Comments


    bottom of page